________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७५
५म अध्यायः
सूत्रस्थानम् । गमनोच्छाससंकथासु सुखानुवृत्त्यादिस्वस्खक्रियावत्ता प्रकृतिस्तामनुपहत्य क्षीणां वा वृद्धां न कृत्वेति यथाकाल निशान्ते जरां जीर्णतां गच्छतीति जीण भवति तस्य पुरुषस्य तावत् तत्परिमितिमदशनमन्नादिकमस्याशनस्यान्नादर्मात्राप्रमाणं परिमितिकरणसंख्यायाः प्रमाणं प्रतीतिकरणं वेदितव्यं भवति बुद्धिमतेति शेषः। अनुपहत्य प्रकृतिमित्यनेन तीक्ष्णानिविषमानीनां मात्रातिमात्राशनस्य यथाकालं प्रकृतिमुपहन्तुर्जरयातिमात्रायातिव्याप्तिर्वारिता सव्वग्रहपरिग्रहाभ्यां प्रकृत्यायष्टभिश्चाहारविधिविशेषायतनैरपरिग्रहेणाशितमपि यदशन यथाकाल जरां गच्छति तदशनमपि मात्रावदेव न समात्र', तावदशनमुपयुञ्जानो हि प्रकृत्यादि विपश्ययेणोपयोगजमशुभं प्राप्नुवन्नपि नामात्रावदाहारजं किञ्चिदशुभं प्राप्नोति। न च मात्रया केरलमन्नस्याभ्यवहारादेव कृत्स्नमाहारफलसौष्ठव हि लभते। तस्मादत्र पात्राहारप्रशंसाप्रकरणात् प्रकृत्यादिविपर्ययेणोपयोगादशुभं न मात्राजदोषाय भवति । एतेन तन्निरस्तं, यैरुच्यते प्रकरणादेव लब्धमस्येति पदमशनमिति पञ्चाशितमिति पदश्चापि या पुनरुक्त तद्विशेषज्ञापनार्थम् । ___ अस्येति पदेन परीक्षको भोक्ता अशनमित्यनेन प्रकृत्याद्यष्टकाविरुद्धमशनमशितमित्यनेन यथाविधि भोजनं बोध्यमिति मात्राशनाधिकारे तथाविधवस्य अनावश्यकखात् । मात्राप्रमाणं शब्देनेह तावच्छब्दवाच्याशनद्रव्यस्य सामानाधिकरण्यानुरोधेन मात्रागितिकरणमुक्तं, तेनाहारमात्राऽग्निवलापेक्षिणी प्रकृत्यनुपहननपूर्वकयथाकालजराप्राप्ताशनविज्ञ यखादित्यर्थः ।
तत्र प्रकृत्यनुपहननमाहारण कुक्षरप्रपीड़नेन हृदयस्यानवरोधेन पाश्वयोरविपाटनेन उदरस्यानतिगौरवण इन्द्रियाप्रीत्यभावेन क्षुत्पिपासाप्रशमनेन स्थानायाति स मायादोषाद्विकारं करोति, करोति तु द्रव्यस्वभावसंस्कारादिदोषात्, यथा--मन्दकलकुचादयो यथाकालं जरां गच्छन्तोऽपि दोषजनका भवन्त्येव ; न तावतापि तत्र माता दुष्यति, यथा वक्ष्यति त्रिविधकुक्षीये “न च केवलं मात्राव त्वादेवाहारफलसौष्ठवमवाप्तुं शक्यं, प्रकृत्या. दीनामानामाहारविधिविशेषायतनानां भिन्नफलत्वात्' इति, नैवं, द्विविधा हि मात्रा रसविमाने वक्तव्या-सर्वग्रहरूपा परिग्रहरूपा च, तत्र समुदितस्याहारस्य परिमाणं सर्वग्रहः, मधुराम्लादीनामाहारावयवानां प्रत्येक मात्रया ग्रहणं परिग्रहः । तेन यत्राहारसमुदायपरिमाणमुचितमेव गृह्यते, आहारावयवानान्तु मधुरादीनां स्वभावहितानामप्ययथोक्तमानं स्यात्, तत्राहारावयवमात्रावैषम्याद धातुवैषम्यं भवत्येव, अयथाकालं जरागमनञ्च स्यात्, तदुक्तं प्रकृतिमनुपहत्येति विशेषणम्। अन्ये तु व्याख्यानयन्ति “अस्य” इति, "अशनम्' इति, 'अशितम्” इति च पदवयं
For Private and Personal Use Only