________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Kaila
मिात्राशितोयः
२७४
चरक-संहिता। यावद्धि अस्याशनमशितमनुपहत्य प्रकृतिं यथाकालं जरां गच्छति, तावदस्य मात्राप्रमाणं वेदितव्यं भवति ॥ २॥ प्रश्नाशङ्काभिप्रायेण तुशब्दार्थकखात्। नवर्त स्वभावजयौवनादावस्थास्वभावजाग्निभेदार्थ पुनःशब्दः पौनःपुन्ये यदा यावदग्निबल' तदा तावदग्निबलापेक्षिणीलाभात् । आह्रियन्ते गलाघो नीयन्ते प्राणोदानाभ्यां यानि द्रव्याणि नातिकठिनकठिननातिद्रवद्रवाणि तान्याहाराणीति तेषां मात्रा मीयन्तेऽनया सङ्ख्यया मानमिति यावदित्याहारमात्रा, करणे अन् न तु भावे, परिमितेलाभादलाभाच परिमितिसंख्याया इति।
अग्निबलापेक्षिणीति--आहारमात्रेत्यस्य पक्षनिद्देशस्य साध्यनिर्देशस्तेन पक्ष आहारमात्रा अग्निबलापेक्षितावत्त्वेन साध्या यावदित्यादाक्ताथों हतुः । अग्निः कोष्टाग्निराहारप्रकरणात् तस्य बलं वरावरमध्यान्यतममपेक्षित स्वप्रयोजनसाधनाविनाभावयितु शील यस्याः साऽग्निवलापेक्षिणी। जठराग्नस्त्रिधा पुरुषापेक्षित्वेनोत्तममध्यमावरभेदन मात्रापि, प्रवराग्निवलापक्षिणी उत्तमा, मध्यमाग्निबलापेक्षिणी मध्यमा, अल्पाग्निवलापेक्षिणी अल्पा। आहारमात्राया अग्निवलापेक्षित्वे हेतुमाह-यावदित्यादि । हि यस्मादस्य भोक्तः पुरुषस्य यावत् यत्परिमाणेन विशिष्टमशन यदन्नादिकं सव्वग्रहपरिग्रहाभ्यां परिज्ञातं प्रकृत्यादाष्टाहारविधिविशेषश्च परिगृहीतं पाश्यखादाले. ह्यपेयात्मकं प्राश्यप्रधानखाद्याधन्यतमसहितं वा अशितमभ्यवहृतं सत् अनुपहत्य प्रकृति वातादीनां रसादीनां मलादीनां तथान्येषाश्च शारीराणामविकृतानां स्थानासनशयन
अग्निबलापेक्षित्वमेव विवृणोति-यावधीत्यादि। यावदिति यावत्परिमाणम् । हिशब्दो हेतौ। अस्येति भोक्तः। अशनं चतुर्विधमपि भोज्यम् । अशितं भुक्तम् । प्रकृति वातादीनां रसादीनाञ्च साम्यावस्थाम् । अनुपहत्य विकारमकृत्वेत्यर्थः । यथाकालमिति निशाशेपे। तावत् इति पूर्वप्रमाणावच्छिन्नमशनं प्रत्यवमृषति। द्वितीयम् “अस्य इति ग्रहणमन्यत्र प्रतिषेधार्थं ; तेन यस्यैव यावता मात्रा निर्विकारा, तस्यैव सा मन्तव्या, नान्येषां ; प्रतिपुरुषमग्निबलस्य भिन्नत्वात्। यद्यपि चैकस्मिन्नपि पुरुषे कालादिभेदेनाग्निबलभेदो भवति, तथाप्येक पुरुष एकमात्रामवधार्य कियन्तमपि कालं तयैव मात्रया अग्निबलभेदहेत्वभावे सति व्यवहारो भवत्येव। मात्राप्रमाणं मात्र यत्ता, मात्राप्रमाणशब्देन चेह मात्राप्रमाणवदिति बोद्धन्यम्, अन्यथा तावच्छब्देनावच्छिन्नाशनवाचिना मात्राप्रमाणशब्दस्य गुणवाचिनः सामानाधिकरण्यं न स्यात् । ननु प्रकृतिमनुपहत्येति न कर्त्तव्य विशेषणं, न ह्याहारो यो यथाकाल जरां
For Private and Personal Use Only