________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८६
चरक संहिता |
यथा हि कनकादीनां मलिनां * विविधात्मनाम् । धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः ॥ एवं नेत्र षु मर्त्यानाम अनाश्च्योतनादिभिः । दृष्टिर्निराकुला भाति निर्मले नभसीन्दुवत् ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदञ्जनं' तत् स्राध्यमञ्जनं निशायान्तु रात्रावेव सौम्यत्वेन ध्रुवमिष्यते निरपायमिष्यत स्रावणानन्तरदुम्बेलत्वेऽपि दृष्टस्तेजोमय्यास्तीक्ष्णाञ्जनयोगेन जातोपतापविरोधिगुणत्वान्निशायाः सौम्याया इत्यर्थः । अन्ये तु ध्रुवमञ्जनं नित्यप्रयोक्तव्यमञ्जनौं सौवीरमञ्जनम् इष्यते । यस्मात्तेजोमयं चक्षुस्तत्तस्मात् दिवा नेत्रयोश्चक्षुर्गोलकयोस्तीक्ष्णमञ्जनं न प्रयोक्तव्यं यस्मात् चक्षुस्तेजोमयं तस्य विशेषात् यत् श्लेष्मतो भयं भवति तत् विरेकदुर्बला दृष्टिविरेकेण श्लेष्मणो निर्हरणेन दुब्र्बलो दोषः श्लेष्मा यत्र सा, आदित्य तेजोमयमादित्य किरणं seoमविरोधिन प्राप्य सीदति शेषमवजयति । तस्मादादित्ये दिनकरकिरणे चक्षुःस्राव्यं वमनवत् पूर्वाह्न निशायान्तु ध्रुवमञ्जनमिष्यते । श्लेष्म निर्हरणानन्तर श्लेष्महर दृष्टिप्रसादनं प्रसन्नताकरं कर्म्म तिमिष्यते इत्यर्थः ॥ ८ ॥
गङ्गाधरः ननु कस्मान्नित्याञ्जनस्रावणार्याञ्जने उपदिशतीत्याशङ्कायां दृष्टान्तपूर्व्वकमुक्तनित्यहिताञ्जनस्रावणार्थाञ्जनयोः कम्माह-यथा हीत्यादि । हि यस्मात् मलिनामागन्तुधूल्यादिमलवतां विविधात्मनां कनकादीनां तेजोमयानां तैलचेलकचादिभिध तानां निम्मेला शुद्धिस्तादृशमलाभावात् शुद्धिः स्वाभाविकी तैजसता यथा भाति एवम्, तथा नेत्रेषु अञ्जनाश्रोतनादिभिः । अञ्जनं नित्यहिताञ्जनं, स्रावणार्याञ्जनं शलाकाञ्जनादि, आप्रोतन नेत्रविरेकार्थ द्रवौषधप्रयोगः । आदिना पुटपाकादिः । तैर्निराकुला निम्मेला वातादि
*
[ मात्राशितीयः
अन्ये तु व्याख्यानयन्ति - ध्रुवं नित्यकर्त्तव्यं सौवीराञ्जनं यत् तन्निशि कर्त्तव्यं, त्रावणाञ्जनन्तु श्लेष्मोद्रेकविषये वमनवत् पूर्वाह्न एव कर्त्तव्यम् ॥ ८ ॥
चक्रपाणिः - अनगुणमाह-यथा हीत्यादि । शुद्धिः स्वाभाविकी साऽऽगन्तुधूल्याद्यप - नयने निर्मला सती भाति । आश्रयोतनं नित्यविरेकार्थं द्रवौषधदानं तच्चेहानभिहितमपि फलै क्यादभिहितम् | आदिशब्देन पुटपाकादीनां ग्रहणम् ॥ ९ ॥
मणानामिति क्वचित् पाठः ।
For Private and Personal Use Only