________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
चरक-संहिता। पडू विरेचनशताश्रितीथः यत् कर्म करोति तस्य तस्य कर्मणः कत्त करणकाय्यसंप्रयुक्तं तत्तद्गौणं नामविशेषं प्राप्नोति । तद्वदौषधद्रव्यमपि द्रष्टव्यम् । यदि चैकमेव किञ्चिद् द्रव्यमासादयामस्तथागुणयुक्तं यत् सर्वकर्मणां करणे समर्थं स्यात्, कस्ततोऽन्यदिच्छेदुपधारयितुमुपदेष्टुं वा शिष्येभ्य इति ॥ १३ ॥ समर्थो योग्यतावान् भवति, स इति पुरुपः यद यत् कर्म फलरूपां क्रियां कुम्भादुत्पत्त्यादिकां करोति, तस्य तस्य कुम्भादुत्पत्तितण्डुलविक्लित्युत्तरदेशसंयोगादः फलरूपस्य कम्र्मणः क्रियायाः कत्ते करणकार्यसम्प्रयुक्त कर्तृकरणकाय्यादिभिः सम्यग् युक्तं निष्पादितं तत्तद गौण नामविशेषं कुम्भकारादिकं कर्त प्रयुक्त यानादिगाण नामविशेषं करणप्रयुक्तं भृत्यादिनामविशेष कार्यप्रयुक्तमेक एक पुरुषो लभते; एवमप्येक द्रव्यं जीवनीयहणीयादिकं गौणं नामविशेष प्राप्नोति इत्यर्थः। अत्र निगमन सुतरां लगा। प्रतिज्ञावाक्यस्य पुनरुक्तस्य निगमनवात्यवान्। तेन तस्मात् नैतदेवं बुद्धिमता द्रष्टव्यमशिवेश, इति निगमनवाक्यं बोध्यम् ।
नन्वेवं चेत् तदा कथ पञ्च कपायशतान्युपदिश्यन्ते, यत एक एव क्षीरकाकोल्यादि वनहितखात् जीवनीयो श्रृंहणहितवाद हणीय इत्येवं स्यात् इत्यत आह-यदि चेत्यादि । यदि चैकमेव द्रव्यमासादयामस्तथागुणयुक्त यत् सर्वकर्मणां करणे समर्थ स्यात्, यदक द्रव्यं यैर्गणः सच्चेषां जीवन
हणादीनां कर्मणां करणे जनने समर्थ शक्तं स्यात्, तथागुणयुक्त तदेकमेव मृषति, यद्यत् कम्र्मेति ओदनपाकादिग्रहः, यदयत् कर्म करोति तस्य तस्य कर्मणः कत्र्त सम्प्रयुक्त पाचक इति, करणसम्प्रयुक्त खानित्रिक इति, कार्यसम्प्रयुक्त कुम्भकार इति नामविशेपं, गुणयोगप्रवृत्तं गौणं ; गुणयोगश्च-पाचक इत्यत्र पचिक्रियायां कर्तृत्वं, खानित्रिक इत्यत्र खनितकरणयुक्त खननं प्रति कर्तृवं, कुम्भकार इत्यत्र कार्यकुम्भोपहितं कत्तुं त्वमित्येभिस्त्रिभिगुणैरभिन्नो भिन्नोऽप्यभिधीयते व्यवहियते चेति भावः; तद्वत् तन्त्र पुरुषवदीपधद्रव्यमपि, एकमपि क्षीरकाकोलीद्रव्यं जीवनवृहणशुक्रजननलक्षणनानागुणयोगान्नानाजीवनीयादिशब्देनाभिधीयते व्यवहियते चेत्यर्थः।
अथ किमर्थं पुनरेकमेव द्रव्यं बहुजीवनीयादिगुणयोगात् तत्र तत्र पठ्यते ? सन्ति तावबहूनि द्रव्यार कैकजीवनीयादिगुणानि स्वरूपतो भिन्नानि, तान्येव पृथक् कस्मान्न पठ्यन्त इत्याहयदि चैकमेव द्रव्यमासादयामस्तथागुणयुक्त यत् सर्वकर्मणां करणे समर्थ स्यात्, कस्ततो
For Private and Personal Use Only