________________
Shri Mahavir Jain Aradhana Kendra
४ अध्यायः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६७
सूत्रस्थानम् । एवंवादिन भगवन्तमात्रं यमग्निवेश उवाच । नैतानि भगवन् पञ्च कषायशतानि पूर्य्यन्ते । तानि तानि वाङ्गानि संप्रवन्ने तेषु तेषु महाकपायेविति ॥ १२ ॥
तमुवाच भगवानात्रं यः । नैतदेवं बुद्धिमता द्रष्टव्यमग्निवेश, एकोऽपि नेकां संज्ञां लभते कार्य्यान्तराणि कुर्व्वन् । तद्यथा पुरुषो बहूनां कर्मणां करणे समर्थो भवति । स यद
गङ्गाधरः अत्र पूर्व्वपक्षमुत्थापयति - एवमित्यादि । पञ्च कषायशतानि न पूर्यन्ते इत्यत्र हेतुमाह - तानि तानि हीत्यादि । हि यस्मात् जीवनीयादिषु तेषु तेषु महाकपायेषु पञ्चाशदन्यतमेषु तानि तानि जीवकादीन्यङ्गानि दशान्यतमैकानेकान्यतमानि संप्लवन्ते एकस्य महाकषायस्याङ्गमेकमनेकं वान्यस्मिन महाकपायेऽवगाहते पुनः पठ्यते इति, तस्मात् पञ्च कषायशतानि न पूर्यन्ते न्यू नाश्च भवन्ति, इति पूर्व्वपक्ष सिद्धान्तं दर्शयतितमुवाचेत्यादि । तमित्यग्निवेशम् | आत्रेय इति पुनर्व्वसुः । कि सिद्धान्तमुवाचात्रेय इत्यतस्तदुक्तसिद्धान्तवचनमाह नैतदित्यादि । एतदिति यदुक्तम् "अग्निवेश भवता तदेतद् एवंप्रकारेण बुद्धिमता सुधिया न दष्टव्यम्” इति प्रतिज्ञा । कस्मादित्यतस्तत्र हेतुमाह – एकोऽपि हीत्यादि । हि यस्मात् एकोऽपि एकः स्वरूपोऽपि : अपिशब्दादनेकस्तु सुतरां कार्य्यान्तराणि कुर्व्वन्ननेकां संज्ञां लभते इति हेतुः । तस्माज्जीवनीयान्तर्गतजीवकादिक्षीरकाकोल्यादिरेकोऽपि जीवनहितः सन्नपि दृ ंहणं कुर्व्वन् ट' हणीयोऽपि भवतीति तस्मात् जीवनीयः काकोल्यादि हणीय एवेति प्रकारं बुद्धिमता द्रष्टव्यमित्यर्थः । ननु कथमेकः कान्तिरं कुर्व्वननेकां संज्ञां लभते इत्याकाङ्क्षायां दृष्टान्तमाह-यथेत्यादि । पुरुष इत्येकः पुरुषो देवदत्तादिः कर्म्मणां क्रियाणां फलरूपाणां बहूनां कुम्भादुत्पत्तिस्तण्डुलविक्लित्तिरुत्तरदेशसंयोग इत्यादीनां करणे जनकव्यापारे
चक्रपाणि:- पूर्वपक्षमुत्थापयति- एवमित्यादि । तानि तानीति जीवकक्षीरकाकोलीप्रभृतीनि तेषु तेषु जीवनीयवृहणीयशुक्रजननादिपु, उपप्लवन्ते पुनः पुनस्तान्येव पठ्यन्ते, एकं द्रव्यमनेकेषु पठ्यमानमेकमेव ; ततश्च न संख्या पूर्यते इति पूर्वपक्षं सिद्धान्तयति नैतदेवमित्यादि । एकस्यानेकत्वेनाभिधाने हटान्तमाह-यथेत्यादि । एकः पुरुषः कर्म्मणां व्यापाराणाम् ओदनपचनकुम्भकरणखनित्रकरणभूमिखननानां करणे समर्थो भवति, य इत्यध्याहाय्यै, स इत्युक्तगुणं पुरुषं प्रत्यव
For Private and Personal Use Only