SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ चरक-संहिता। पड़ विरेचनशताश्रितीय: विस्तरेण चोदिष्टाः। एतावन्तो ह्यलमल्पबुद्धीनां व्यवहाराय, बुद्धिमताञ्च खालक्षण्यानुमानयुक्तिकुशलानामनुक्तार्थज्ञानायेति ॥ ११॥ कल्पते । तस्मादनतिसङ्गे पेणानतिविस्तरेण पञ्च कपायशतान्यभि समस्य पञ्चाशन्महाकपाया उद्दिष्टा न खतिविस्तरेण न वातिसङ्ग पेण। अत्र चशब्दः समुच्चयपूर्वकावधारणे। तो वञ्चेत् कथमल्पबुद्धिभिश्चिकित्सितव्यं कथं वा महाधीभिरखिलेन ज्ञातुमिच्छद्भिः कपायद्रव्याणि गुरुतः श्रूयन्ते ? इत्यतस्तत्र हेतुमाह-एतावन्तो हीत्यादि। हि यस्मात् एतावन्तो निरुक्ता एते ये पञ्च कषायशतान्यभि समस्य पञ्चाशन्महाकपायास्ते एवाल्पबुद्धीनां मन्दबुद्धिभिभषज्यव्यवहाराय चिकित्सायां व्यवहत हेतवो भवन्ति। न ह्यल्पबुद्धयोऽखिलं व्याधि चिकित्सितु शक्नुवन्ति, यावद्रोग चिकित्सन्ति तच्च एतावद्भिरेवोपपद्यते इति भावः। कथं महाधीभिरपि गुरुभिः श्रावयितु शक्यते तदाह-बुद्धिमताञ्चेति। च पुन द्धिमतां महामुक्ष्मधियां स्वालक्षण्यानुमानयुक्तिकुशलानामिति। जीवकादीनां दशशो द्रव्याणां पञ्चशतानां कपायद्रव्याणां खालक्षण्येन स्निग्धशीतष्यमधुरखादिना च स्वेन स्वेन लक्षणेन गुणकर्मरूपेण लोकानां जीवनादिहेतुलमित्यनुमाने युक्तिकुशलानां भूयो दर्शनेन तत्तद गुणकम्मेवतां द्राक्षादीनामपि जीवनीयवादि इति युक्तो च कुशलानां दक्षाणां भिपजाम् अनुक्तार्थज्ञानाय अनुक्तानां द्रव्याणां जीवनीयवादातिरिक्तार्थानां कर्मणां ज्ञानाय हेतवो भवन्ति, एतावन्तो महाकषायाः पञ्चाशद, येत्रोक्ता इति । एतेनैतदुक्त भवति, जीवनहणादिपश्चाशत्प्रयोजनातिरिक्तं यदेतच्छास्त्रेऽस्ति तदनेन भविष्यतीति नातो न्यूनता, यस्य तु कषायद्रव्यस्यातिरिक्तमेव गुणकम्मास्ति तद्विशेषेणैवोपदेश्यमिति ॥ ११ ॥ एतावन्तो यथोक्ताः, अलं समर्थाः, व्यवहारायेति चिकित्साव्यवहाराय। स्वलक्षणस्य भावः स्वालक्षण्यं, तेनानुमानं तत्र कुशला अभिज्ञा इत्यर्थः। बुद्धिमन्तो हि, जीवकादयो हि स्निग्धशीतमधुरवृष्यादिगुणयुक्ताः सन्तो जीवनं कुर्वन्तीति भूयोदर्शनादुपधार्य तद गुणयुक्तऽन्यत्रापि द्राक्षापयोविदार्यादौ तज्जातीयत्वेन जीवनान्यनुमिमते तथा जीवकादीनामेकजीवनकार्यकर्तृत्वेन महाकषायत्वं, तद्वत् पाठासमङ्गादिप्रभृतीनामप्यतीसारहराणामतीसारहरमहाकषायत्वम् : अनुमानेन कृत्स्नमेव कषायं प्रतिपद्यन्त इति भावः ॥ ११ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy