________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
चरक-संहिता। पड़ विरेचनशताश्रितोयः वोरणशालिषष्टिकेतुबालिकादर्भकुशकाशगुन्द्र कटकत्तणमूलानीति दशेमानि स्तन्यजननानि भवन्ति (१)। __पाठामहौषधसुरदारुमुस्तमूर्वागुचीवत्सकफलकिराततिक्तकटुरोहिणीसारिवा इति दशेमानिस्तन्यशोधनानि भवन्ति (२)।
जीवकर्षभक-काकालीक्षीरकाकोलीमुद्दपीमाषपओमेदावृक्षरुहाजटिलाकुलिङ्गा इतिदशेमानि शुक्रजननानि भवन्ति(३)।
कुष्ठेलबालुककटफलसमुद्रफेनकदम्बनि-सेक्षुकाण्डेक्षिनरकवसुकोशीराणीति दशेमानि शुक्रशोधनानि भवन्ति (४)।
इति चतुष्कः कपायवर्गः। अथोद्द शक्रमप्राप्तस्तन्यजननादिचतुष्ककपायवर्गमाह-वीरणेत्यादि। तत्र वीरणेत्यादिना सप्तदशदशकः स्तन्यजननकपायवर्गः। अत्र वीरणमुशीरम् , शालिहमन्तिकधान्यम्, पष्टिकं पष्टिदिनभवधान्यम्, इक्षुवालिका खाग्गड़िका, दर्भ उलुया तृणम् । कुशकाशौ स्पष्टो, गुन्द्रा गुडची, इत्कट इकड़ इति लोके। एषां मूलं,गुडूच्यास्तु नाड़मेव सम्भवात् । “अङ्ग ऽप्यनुक्ते विहितन्तु मूलम्” इति वचनाद्वीरणादीनां मूले लब्धे मूलपदम् इत्कटादीनामङ्गान्तरनिरासार्थम् । स्तन्यजननानि प्रभावात् (१) । पाठेत्यादिना स्तन्यशोधनोऽष्टादशो दशकः कषायवर्गः स्पष्टः। स्तन्यशोधनानि प्रभावात् । (२) जीवकेत्यादिना शुक्रजननानि प्रभावात, एकोनविंशः कपायवर्गः (३) । कुष्ठ त्यादिना विंशो दशकः, शुक्रशोधनकषायवर्गः। तत्र एलवालुकमैलेयं, तेजवल इति लोके। समुद्रफेनः स्वनामख्यातः। कदम्बो नीपस्तस्य निासो वेष्टकः । इक्षुः स्पष्टः । काण्डक्षुरिति लटा इति लोके । इक्षुरकः कोकिलाक्षः । वसुको वसुहट्टः वकपुष्पमिति लोके । शुक्रशोधनानि प्रभावात् (४)। इति चतुष्कः स्तन्य-शुक्रयोजनन-शोधनान्तवेन तुल्यश्रवणेन सुश्राव्यतया चतुणां स्तन्यजननादीनां कपायवर्गाणामेकपिण्डेन पुष्कलाभिधानात् चतुर्भिस्तः कपायवगो निप्पादित एकः कपायवर्ग इत्यर्थः ।
इक्षुबालिका खागारिका, दर्भ उलुयातृणं, गुन्द्रा गुलुञ्चः (१)। स्तन्यशोधनो व्यक्तः (२)। वृद्धरुहा शतावरी, वृक्षरुहापाउपक्षे वन्दारुः, जटिला उच्चटः, कुलिङ्गो उच्चटभेदः (३)। कदम्बो बहुफलः, इक्षुरकः कोकिलाक्षः, वसुको वसुहट्टकः। अत्र जतूकर्णपठित एलबालुकः कटफलस्थाने (४)।
For Private and Personal Use Only