________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५५
४र्थ अध्यायः
सूत्रस्थानम्। खदिराभयामलकहरिद्रारुष्करसप्तपर्णारग्वधकरवीरविड़ङ्गजातिप्रवाला इति दशेमानि कुष्ठन्नानि भवन्ति (३)।
चन्दननलढकृतमालनक्तमालनिम्बकुटज-सर्षपमधुकदारुहरिद्रामुस्तानीति दशेमानि कण्डन्नानि भवन्ति (४)।
अक्षीव-मरिचगण्डीरकेवुकविङ्गनिर्गुण्डीकिणिहीश्वदंष्ट्रावृषपर्णिकाखुपर्णिका इति दशेमानि क्रिमिन्नानि भवन्ति (५)।
हरिद्रामञ्जिष्ठासुवहासूचमलापालिन्दीचन्दनकतकशिरीषसिन्धुवारलं मातका इति दशेमानि विषन्नानि भवन्ति (६)।
इति षट्कः कषायवर्गः । अर्शीघ्रानि प्रभावात् (२) । खदिरेत्यादिना त्रयोदशदशकः कुष्ठनः कषायवर्गः। अत्रारुष्करो भल्लातकः । जातीवाला जात्या नवपल्लवम् । कुष्ठन्नानि प्रभावात् (३)। चन्द नेत्यादिना चतुशदशकः कण्डघ्नः कपायवर्गः । अत्र चन्दनं रक्तचन्दनमनुक्तखात सर्वत्र बोध्यम् । नलदं जटामांसी, कृतमालः शोनालुरिति खप्रातः। नक्तमाल: करञ्जः। कण्डन्नानि प्रभावात् । (४)। अक्षीवेत्यादिना पञ्चदशदशकः क्रिमिन्नः कषायगः। अत्राक्षीवः शोभाञ्जनकः, गण्डीरः शमटशाकं शालचीति लोके । केवुकः केउ इति लोके। किणिही कटभी, निर्गुण्डी सिन्धुवारः, आखुपर्णी मूषिकपर्णी दन्ती। दृपपर्णी आखुपर्णीभेदः, फञ्जिपत्रिकेति खाता। क्रिमिन्नानि प्रभावात् (५)। हरिद्रेत्यादिना पोडशदशको विषघ्नः कषायवगः। तत्र सुवहा रास्ना आफरमाली वा, पालिन्दी श्यामालता, कतकः निम्मेलीति लोके, जलशोधनकरफलम् । श्लेष्मातको बहुवारः। विषघ्नानि प्रभावात् (६)। इति षट्कः प्रान्तखेन तुल्यश्रवणात् सुश्राव्यतया तृप्तित्रादीनां षण्णां कषायवर्गाणामेकपिण्डेन पुष्कलाभिधानात् षड्भिनिष्पादित एकः कपायवर्ग इत्यर्थः। नरूदं मांसी, कृतमालः सुवर्णहलिः, नक्तमाल: करजः (१)। अक्षीवोऽब्दकः शोभाजनो वा, गण्डीरः शमठशाकं, निर्गुण्डी सिन्धुवारः, किणिही कटभी, आनुपर्णी मूषिकपर्णी, वृषपर्गी च तभेदः फङ्गिपत्रिकेति ख्याता (4)। सुवहा रास्ना हाफरमाली वा, पालिन्दी श्यामालता, श्लेष्मातको बहुवारः (६)।
For Private and Personal Use Only