________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थं अध्यायः सूत्रस्थानम् ।
२५३ लोध्रप्रियङ्गुकटफलानीति दशेमानि सन्धानीयानि भवन्ति (५)।
पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेराम्लवेतसमरिचाजमोदाभल्लातकास्थिहिङ्ग निर्यासा इति दशेमानि दीरनीयानि भवन्ति (६)।
इति पटकः कपायवर्गः । ऐन्थ यभ्यतिरसर्यप्रोक्तापयस्याश्वगन्धा-स्थिरा-रोहिणीबलातिवला इति दशेमानि बल्यानि भवन्ति (१)।
चन्दनतुङ्गपद्मकोशीर-मधुक-मञ्जिष्ठासारिवापयस्यासितालता इति दशेमानि वर्णानि भवन्ति (२) । समङ्गा वराहक्रान्ता। मोचरसः शाल्मलीवेष्टः । कटफल स्वनामल्ल्यातक्षः । सन्धानीयानीति भग्नसंयोजीनि (५) । पिप्पलीत्यादिः षष्ठो दशको महाकषायवर्गः। अत्र शृङ्गवेरं शुष्ठी, अम्लवेतसः चैकल इति लोके। दीपनीयानि जाठराग्न लदीपनाय हितानि (६) । इति षटकः कषायवर्ग इति षट्कखेन निदिष्टो यः प्रथयो वर्गः स्वस्थातुरोभयहितवसामान्यात् दशदशावयविकवेन प्रत्येक व्याख्यातं समाप्तम् । __उद्दे शक्रमप्राप्तं बल्यादिचतुष्ककपायवर्ग व्याख्यातुमाह ----ऐन्द्रीत्यादिश्चतुष्कस्य प्रथमो दशको महाकपायवर्गः। ऐन्द्री गोरक्षकर्कटी। ऋषभी शुकशिम्बी। अतिरसा शतावरी। ऋष्यप्रोक्तात्र भाषपर्णी। पयस्या विदारी। अश्वगन्धा स्वनामख्याता। स्थिरा शालपर्णी। रोहिणी कटकरोहिणी । बला पीतवला । अतिवला श्वेतवला । वल्यानि बलाय हितानि (१) । चन्दनेत्यादिश्चतुष्कस्य द्वितीयदशकः महाकरायवर्गः। चन्दनोऽत्र चन्दने रक्तचन्दनमित्युक्त्या प्रायेण सर्वत्र रक्तचन्दनम् । तुङ्गः पुन्नागः, पाठान्तरे पत्तङ्गः कुचन्दनमिह वकम इति खाते । पद्मकं पाकाष्ठम् । पयस्या विदारीकन्दः। समझा वराहक्रान्ता, कटफलं स्वनामप्रसिद्ध ; सन्धानीयः संग्रहणः, सामान्येन पुरीपस्य संग्रहणस्तु भिन्नमलमात्रसंग्रहणः (५)। शृङ्गवेरः शुण्ठी, हिङ्ग निासो हिङ्ग, (६)।
ऐन्द्री गोरक्षकर्कटी, ऋषभी शुकशिम्बा, अतिरसा शतावरी, ऋष्यप्रोक्ता माषपर्णी, अतिबला पीतबला, पयस्येह विदारिकन्दो क्षीरकाकोली वा (१)। तुङ्गः पुन्नागः, पयस्येह
For Private and Personal Use Only