________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
चरक-संहिता। [दीर्घजीवितीयः तदा भूतेष्वनुक्रोश पुरस्कृत्य महर्षयः। समेताः पुण्यकाणः पावें हिमवतः शुभे॥
तदा मूत
विघ्नभूता इत्यत्राभूततद्भावे चिर्न सम्भवति रोगाणामुत्पत्तित एव विघ्नस्वरूपत्वेन अविनस्वरूपखाभावात् । शरीरिणामिति जीविनां न खात्मनां बहुप्राण्यभिप्रायेण बहुवचनोपपत्तावप्यात्मानो हि पुंसां निर्विकारत्वेन नित्यत्वेन च निर्विघ्ना इति। तपेति सर्वेऽसन्ता अप्यदन्तास्तेन तपशब्दस्तपोऽर्थकः छान्दसखाद्वा सलोपो, 'निषिद्धविधेरनित्यत्वाद्वा विसर्गलोपे सति न सन्धिनिषेधः। तदति । भूतेष्विति पञ्चमहाभूतशरीरिसमवायलक्षणलोकेषु। अनुक्रोशः कारुण्यम् । पुरस्कृत्येत्यग्रे कृत्य । समेताः समागताः। पुण्यकाणः पुण्यं पुण्यजनक कर्म क्रिया येषां ते तथा। महर्षीणां भूतेष्वमुक्रोशे पुण्यकर्मकल हेतुः। महर्षयो भूतेषु सानुक्रोशाः पुण्यकर्मकखात् । पुण्यकर्माकखञ्च भूतेष्वनुक्रोशेनेतदारम्भात् । शरीरिणां विघ्नभूतरोगाः समानकालिकतया महर्षीणां भूतेष्वनुक्रोशपुरस्कारपृचकहिमवत्पाश्वसमागमे हेतव इति ॥
दशमहामूलीये वक्रव्यः । शीय्यत इति शरीरं तदस्यास्तीति शरीरी, तेन शरीरं स्वत एव शीय्यमाणं रोगसम्बन्धात्तु नितरां शीय्यत इति सूचयति । केषां विधभूता इत्याह, तपोपधासाध्ययनेत्यादि ।-रोगग्रस्ता हि शरीरिणस्तपःप्रभृतीनि कत्तुं न पारयन्ति विघ्नवत्वात्, तथा आयुषश्च मारकत्वेन केचिद् गदा विरोधिका भवन्ति। अत्र तपश्चान्द्रायणादि, उपवासः क्रोधादिपरित्यागः सत्याधु पादानञ्च, वचनञ्च उपावृत्तस्य पापेभ्यः सहवासो गुणे हि यः। उपघासः स विज्ञेयो न शरीरस्य शोषणम्" अध्ययभ घेदाध्ययनं, ब्रह्मणे मोक्षाय चर्यं ब्रह्मचय्यम् उपस्थनिग्रहादि, व्रतमीप्सितकामो नियमः, आयुरुक्तं, तपोपवास इति प्रयोगः पूर्वत्रासिद्धविधेरनित्यधेन तपःसकारस्थानिभूतयलोपस्य सिद्धत्वात् ज्ञेयः, यथा नोपधाया इति ; भूतेषु प्राणिषु, अनुक्रोशमित्यनुकम्पां, कस्मात् ? अनेकाथत्वाद्धातूमां, पुरस्कृत्येति आदृत्य । एतेन प्राणिरोगहरणमेव प्रधानमायुर्वेदोपगमने महर्षीणां फलम्, आयुःप्रकपस्तु अनुषङ्गसिद्धस्तेषां महात्मनामिति भावः । नरेष्विति वक्रव्ये यदयं भूतेष्विति सामान्यशब्दं करोति, तेन न समानजीवप्रयुक्रेथमनुकम्पा, किन्तु प्राणित्वमानप्रयुक्रेति समदग्नितामृषीणां दशयति । महान्सश्च ते ऋषयश्चति महषयः, अनेन चतुर्विधा अपि ऋषयः- ऋषिकाः, ऋषिपुत्राः, देवर्षयः, महषयश्च गृह्यन्ते, महष्यनुगामित्वादृषिकादीनामपि ग्रहणम् । पुण्यं पावनं कर्म येषां ते पुण्यकर्माणः, पशु काभिस्तृतं पार्श्वे तेन पार्श्वमिव ततं पार्श्व, शुभ इति पदं कर्त्तव्यसमाध्यनुगुणतोपदर्शनार्थे, यतः शुभे हि देशे समाधयः प्रसीदन्ति ॥
For Private and Personal Use Only