________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् । अङ्गिरा जमदग्निश्च वसिष्ठः काश्यपो भृगुः। । आत्र यो गौतमः साङ्ख्यः पुलस्त्यो नारदोऽसितः ॥ अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ । पारिनिर्भिक्षुरात्र यो भरद्वाजः कपिष्ठलः ॥ विश्वामित्राश्वरथ्यौ च भार्गवश्च्यवनोऽभिजित् । गार्यः शाण्डिल्यकौण्डिल्यौ वानिर्देवलगालवौ ॥ सांकृत्यो वैजवापिश्च कुशिको वादरायणः । बड़िशः शवलोमा * च काप्यकात्यायनावुभौ । काङ्कायनः कैकशेयो धौम्यो मारीचिकाश्यपौ। शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च ॥ शौनकः शाकुनेयश्च मैत्र यो मैमतायनिः ।
वैखानसा बालखिल्यास्तथा चान्ये महर्षयः॥ गङ्गाधरः-ते पुनर्महर्षयः के इत्यत आह । अङ्गिरा इत्यादि तथा चान्ये महर्षय इत्यन्तम् । काश्यपो भृगुरिति कश्यपगोत्रं भृगु म ऋपिन तु सप्तर्षिषु भृगु ष यः । आत्रेयोऽत्र कृष्णात्रिपुत्रः पुनर्वसुः । गौतमः साङ्खा इति बौद्धविशेषगौतमव्यात्तये साङ्खा इति। पुलस्त्यो नारदोऽसित इति यस्यौरसः शूद्रायां देवर्षिारदो जातः । अगस्त्यो सतीदेहोद्भवः वामदेवः । पारिक्षिर्नाम भिक्षुर्दण्डी स आत्रेय एव न खन्यस्य पुत्रः। भरद्वाजः कपिष्ठलो न तु कुमारशिरःप्रभृतिर्भरद्वाजः। शुनकपुत्रः शौनकः। शाकुनेयो नाम ब्राह्मणः। मैत्रेयो मैमतायनिः । बालखिल्या वैखानसा वानप्रस्थाः। तथा चान्ये महर्षय इति भद्रकाप्यादय इति ॥
चक्रपाणिः-के ते महर्षय इत्याह अङ्गिरा इत्यादि।-बहु.षीणामन्त्र कीर्तनञ्च ग्रन्थादौ पापक्षयहेतुत्वेन, तथा आयुर्वेदस्यैवंविधमहापुरुषसेवितत्वेन सेव्यत्वोपदर्शनार्थञ्च ति, एषु च मध्ये केचित् यायावराः; केचिच्छाकीनाः, केचिदयोनिजाः, एवम्प्रकाराश्च सर्वे मिलिता बोद्धव्याः, भिक्षुरित्याय
M
* शरलोमेति चक्रपाणितः पाठः ।
For Private and Personal Use Only