________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
सूत्रस्थानम्। विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम् ।
तपोपवासाध्ययन-ब्रह्मचर्यव्रताजुषाम् ॥ विशेषमुणयोगात् शरण्यख व्याक्षिरे तन्न सङ्गच्छते ; “अथ ते शरणं शक्र ददृशुर्ध्यानचक्षुषा” इत्यनन्तरवचनस्य आनर्थक्यात् । यदि तत्र शक्रस्य अकृतशिष्यत्वेन शिष्यार्थिवगुणयोग एव ध्यानचक्षुषा शरण्यत्वेन दर्शने हेतुरित्युच्यते, तदा ब्रह्मादीनामपि कृतशिष्यत्वेन शिष्यार्थिवाभावेऽपि कृतशिष्यत्वेन शिष्यकरणे सिद्धिभाजनखादिगुणयोगस्यापि हेतुख कल्पितु किं न रोचयते ? वस्तुतोऽत्र कृत्स्नार्थे केवलशब्दोऽवधारणे तु हशब्दः, तेन कृत्स्नमेवायुर्वेदं प्रतिपेदै न त्वेकदेशमित्यर्थः। ध्यानचक्षुषा शक्रस्य शरण्यत्वेन दर्शने व प्रजापालनकर्तुत्वेनेश्वरनियोजितलं हेतुरिति सूचनाय भगवानिति शक्रस्य विशेषणमुक्तम् । ब्रह्मादयो हि सृष्ट्यादिकर्त्तारो न तु साक्षात् पालकाः। पालनमपि हि प्रजानां
परम्परया तेषां न तु कश्चित् साः प्रजाः साक्षात् प्रतिपालयति किन्तु · काश्चित् साक्षात् काश्चित् परम्परयेति तत्त्वम् । भरद्वाजो मुनिर्यस्मात् शक
गन्तुमृषिप्रोक्तस्तस्माच्छक्रमुपागमदित्यथः॥२॥ __गङ्गाधरः-ननु भरद्वाजो मुनिः किं निजस्य दीर्घजीविताय ऋषिभिः प्रोक्तोऽयवा ऋषीणां किंवा प्रजानामथवा सर्वेषामित्याशंसायामाह । विघ्रभूता इत्यादि । तपोपवासादीनां मङ्गलजनकानां विघ्नविनाशकलेन तज्जुषां प्राणिनां विघ्नभूता रोगा न भवितुमर्हन्ति इत्याशवाह, तपोपवासेत्याद्यजुषामिति । हि गुरुभ्यः सम्यगादाय विद्यां न प्रयच्छत्यन्तेवासिभ्यः स खलु ऋणी गुरुजनस्य महदेनो विन्दति'इत्यतोऽकृतशिष्यत्वेन शिष्यार्थि त्वविशेषयोगात् ब्रह्मादिभ्यो विशेषेणेन्द्र एव शरण्य ति। ब्रह्मणस्तु परमगुरोविदितसकलवेदस्य सर्वत्रातिरोहितमतेरायुर्खेदज्ञानं स्वतः सिद्धमेवेति न गुव॑न्तरापेक्षा। एतच्च ब्रह्मादिगुरुपरम्परोपदर्शनमायुर्वेदस्याविप्लु तागमोपदर्शनार्थं तथा महापुरुषसेवितत्वेनोपादेयत्वोपदर्शनार्थञ्च ; वचनं हि तत्र “यन्मन्येत महद्यशस्विपुरुषसेवितम्" इत्यादि यावत् "उपादद्याम्छात्रः" इति । ऋषिप्रोक्त इति वक्ष्यमाणवृत्तान्तेन ऋषिप्रोक्तः। तस्मादिति यस्मादिन्द्र एव विशेषेण शरण्यः ॥२॥
चक्रपाणिः-अथ कथमयमृषिप्रोक्त इत्यायुर्बेदस्य मतवलोकगमने हेतुमाह, विघ्नभूता इत्यादि। -विघ्नभूता इत्यन्तरायस्वरूपाः, रुजन्तीति रोगाः, प्रादुर्भूता इत्याविभूताः, अयञ्च रोगप्रादुर्भावः कृतयुगान्ते बोद्धव्यः, वक्ष्यति हि "भ्रश्यति तु कृतयुगे” इत्यादिना रोगप्रादुर्भावं जनपदोसनीये, प्रादुर्भावश्च पूर्व सिद्धस्यैवाविर्भावः, तेन रोगसन्ताननित्यताप्यविरुद्धा भवतीत्यर्थोऽर्थे * ब्रह्मचर्यग्रताषुषामिति चक्रपाणितः पाठः ।
For Private and Personal Use Only