________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [दीर्घजीवितीयः ब्रह्मणा हि यथाप्रोक्तमायुर्वेदं प्रजापतिः । जग्राह निखिलेनादावश्विनौ तु पुनस्ततः॥ अश्विभ्यां भगवान् शक्रः प्रतिपेदे ह केवलम् ।
ऋषिप्रोक्तो भरद्वाजस्तस्माच्छक्रमुपागमत् ॥ २ गङ्गाधरः- ननु भरद्वाजो मुनिः किं स्वस्य दीर्घायुरन्विच्छन् इन्द्रमुपागमत् उत प्रजानामित्याशझायाम् ; किं स्वयमुदुक्तोऽन्येन। वा नियुक्त इत्याशङ्कानिरासाय पारम्पय्योपदेशं प्रदर्शयन्नाह-ब्रह्मणेत्यादि शक्रमुपागमदित्यन्तम् । हि यस्माद, ब्रह्मणा हिरण्यगर्भेण यथाप्रोक्तं प्रोक्तमनतिक्रम्य आयुर्वेद निखिलेन निरवशेषेणादौ प्रजापतिर्जग्राह तद्ब्रह्मत एव अध्ययनेनेत्यूह्यम् । ब्रह्मण आयुश्चेदं प्रजापतिजग्राहेति नोत्तवा ब्रह्मणा हीत्यायध्ययनक्रमोपदर्शनरूपेण निर्देशात् ; अध्ययनक्रमो हि उपाध्यायेनादौ स्वरवर्णादिवैश्य न यथाशास्त्रवाक्यमुच्चरितथ्यं पश्चात् तथैव शिष्येणोच्चरितव्यमिति । प्रोक्तिग्रहणक्रिययोः क खापादानखयोदयोब्रह्मणि प्राप्तौ परकारकखादुभयार्थे कर्तृपद साधु । मोक्तत्युक्त्या आयुर्वेदप्रकाशकत्वं ब्रह्मणः ख्यापितं न खायुव्वेंदस्रष्टत्वं, तेनायुर्वेदस्य प्रसिद्धख स्वत एवेत्युक्तं भवति। अश्विनौ तु, पुनः पश्चात् ततः प्रजापतितोऽध्ययनेन ब्रह्मणा यथाप्रोक्तमायुव्वेदं निखिलेन जगृहतुन तु प्रजापतिना प्रतिसंस्कृतमिति । अश्विभ्यां भगवान् शक्रो ब्रह्मणा यथाप्रोक्तमायुदं केवलं कृत्रनं प्रतिपेदे। हशब्द एवार्थे। तेन प्रतिपन्नवान् नतु कस्मैचिद दत्तवान् । ये तु एतेनाकृतशिष्यत्वेन शक्रस्य शिष्यार्थित्वेन ब्रह्माद्यपेक्षया सुस्थहितासुरहितचिकित्साभ्याम् । अयञ्च वादः शास्त्रकारेण स्वयमेव प्रपञ्जन निर्लोचनीय इति नेह प्रतन्यते॥
__ चक्रपाणि:-- कथमिन्द्र एव शरथ्यो न ब्रह्मादय इत्याह ब्रह्मणा हीत्यादि ।-हिं यस्मादर्थे, प्रजापतिक्षनामा, प्रोक्रमिति प्रकर्षेणोकं प्रकर्षश्चानवशेषेणाभिधानम्, यथेत्यनेन तथाशब्दस्य नित्यसम्बन्धस्याकर्षणवत्वात् यादृश प्रोक्त तादृशमेव जग्राह, निखिलेनेत्यनवशेषेण। अश्विनौ तु ततः प्रजापते गृहतुः ; अत्रापि यथाप्रोक्त निखिलेन चतिपदं तथैव योजनीयम्, एवमश्विभ्यां भगवान् शक्रः प्रतिपेदे हेत्यत्रापि यथाप्रोनमित्यादि योजनीयम् ; ह-शब्दरत्ववधारणे, तेन प्रतिपेद एव, परं शक्रो न तु कस्मैचिदायुर्वेदं दत्तवान् इत्यर्थः। अनेन च ग्रन्थेनान्यूनाधिकायुर्वेदागमोपदर्शकेन यथा ब्रह्मण आयुर्वेदज्ञानं तथा इन्द्रस्यापीति दर्शितं ; तेन ब्रह्मणो वा आयुर्वेदः श्रूयते इन्द्रावति न कश्चिदर्थतो विशेषः । इन्द्रे त्विदमधिकं यदयमसंक्रामितविद्यत्वेन शिष्यार्थी, यदुक्त "यो
For Private and Personal Use Only