________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् । जीविते वृत्तिर्नोपपद्यते, इति चेन्न, समवायेन परखापरवयुक्तिसयापृथक्लपरिमाणसंस्काराभ्यासानां गुणादिष्वप्यवाधात् । यथा दुग्धे यन्माधुय्यं ततोऽधिकमिक्षुषु माधुर्य, तथा षड़सा दश शब्दा इत्यवमादयः। अन्विच्छनिति-अप्राप्तपाप्त्यनुकूलगत्यादिव्यापारोऽन्वेषणम् । इन्द्रमिति - इदि पर। मैश्वय्ये, इत्यस्माद्धातोरप्रत्ययान्तत्वेन राजमात्रबोधकस्य इन्द्रशब्दस्य सहस्र/ लोचनेऽत्र वृत्तिज्ञापनायोक्तममरेश्वरमिति। अमरेश्वरशब्देन हरिहरब्रह्मणा। मलाभनिरासार्थमिन्द्रमिति । अथवा इन्द्रपदेन भूतलस्थजन्तुरक्षितृवम्, अमरेश्वरपदेन देवरक्षितृत्वं शापितम् ॥ पादशो हसति क्रमात्" । कर्मणानुरूपञ्चायुर्नियतं वा अनियतं वा भवति, तत्र बलवत् कारब्धं नियतं यथायमस्मिन् काले म्रियत एव, परम् अबलवत्कारब्धं त्वनियतं, तद् यदा दृष्टं विषादि मारकं प्रत्ययमासादयति तदा सञ्जातबलं मारयति, यदा न प्राप्नोति दृष्टं मारकं कारणं, तदा युगानुरूपायुःप्राप्तौ युगप्रभावजजीकृतशरीरं मारयति। अत्र दृष्टान्तश्चाचार्येण दशितः यथा-"हयक्षः स्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवावसानं गच्छति, स एवाक्षोऽतिभाराधिष्ठितः” इत्यारभ्य “यावदन्तराव्यसनमापद्यते तथा अनियतायुषः अन्तरा प्राणा अपरान् निरुध्यन्ते" इत्यन्तेन । यदा त्वनियतायुषो रसायनमाचरन्ति तदा तत्प्रभावात् युगप्रभाव. नियतायुर्लङ्घनं भवति, यदाह "तानि यावन्ति भक्षयेत्, जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः" इत्यादि। न तु बलवत्कर्म नियतस्यायुषो लङ्घनमस्ति, यदाह "कर्म किञ्चित् क्वचित् काले विपाकनियतं महत् । किञ्चितु कालनियतं प्रत्ययैः प्रतिबुध्यते"। हन्त यद्यवं तदा सर्वत्र कम्मैव कारणं मरणे जीविते वा तथा व्याधौ व्याध्यपगमे वा, सत् किमनेनायुर्वेदेन कर्मजनितफलानुविधायिना ? तथाहि यत्तावदुच्यते नियतं कर्म, तत्र तावदायुर्वेदव्यापारो नास्ति, येन नियतेनैव कम्मणा मिलितमपि दृष्टं तत्र विफलीक्रियते, यच्चाबलवत्कारब्धत्व नाभियतमायुरुच्यते, तदपि न श्रद्धाधीनं, येनादृष्टशक्तिपराभवेग दृष्टस्य काय्यकारितां दृष्टा विवादाध्यासितेऽपि विषयेऽदृष्टमेव कारणम् अवधारयामः, दृष्टं त्वदृष्टाकृष्टमेव तत्र भवति, नैवम्, एवं सति सानुष्ठानस्योपरमप्रसङ्गः, किञ्च केबलकम्मवादिनो दृष्टमपवदतोऽदृष्टोत्पत्तिरेव न प्राप्नोति, अदृष्टं हि दृष्टाग्निष्टोमादिजन्यं, दृ टञ्च कारणं कम्प्रवादिनोऽभिमतम् । अथादृष्टकारणं दृष्टमिच्छन्ति, हन्त तहि तेनैव न्यायेन दहनादीनामपि किमिति शीतापहत्वस्फोटादिजनकत्व न स्वीक्रियते ? किञ्च केवलकम्मघादिनो दृछ कारणे व्याप्तिग्रहणाभावाददृशानुमानमेव न स्यात् तस्माद् दृशमह पञ्च कारणम्। तत्र क्वचिदृ दोन बाध्यते क्वचिच्च दरमहर नेति । तेन यत्र पुरुषे बलवत्त्वनियतमरणकारणमदृष्टं तत्र जीवितमरणयोरकिञ्चित्करोऽयमायुर्वेदः, किन्तु तत्रापि नियतमरणकालादाक दाखजनकध्याधिप्रशमने व्याप्रियत एव यदि व्याधिरपि तस्य नियतकम्मजन्यो न स्यात्, यत् तु कर्मानियतविपाकं भवति तत् प्रति सर्वथा प्रयोजनबदायुर्वेदोपादानं, बत्तु युगनियसमायुः, तन्नातिबलवता कर्मणा नियमितं, येन रसायनप्रयोगात् तदबाधनं दृष्टत्वादनुमन्यते न तु
For Private and Personal Use Only