________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ दीर्घजीवित्तीयः दीर्घजीवितमन्विच्छन् अमरेश्वरमिन्द्र शरण्यं बुद्ध्वा दीर्घजीवितोपायारोग्यरोगप्रशमनानाम् उत्पत्युपायवक्तृत्वेन स्वल्पजीवितरोगभयात् रक्षितारं मला उपागमत् प्राप। संयोगस्य हि संयोगिदेशप्रतिनियतमानत्वेऽपि कालवैशिष्ट्य न विरुध्यते। मानन्तु द्विविधं-दैशिकं कालिकश्च। तत्र प्रतियोग्यनुयोगिदेशयोः यन्मानं तत् सममानं, दैशिकं यथा-हस्तमितदण्डयोः सर्वदेशे संयोगो हस्तमितः। तथा संवत्सरो महाकालस्तस्य यदणुखानुपलादिमुहूर्तादिदिनमासाद्यात्तद्विवत्सरादिमानं तन्मानसमन्वितं कालवृत्तित्वेन यन्मानं तन्मान कालिक, तदत्र शरीरेन्द्रियसत्त्वात्मसु संयोगस्य जीवितस्य दीर्घत्वं प्रतिनियतकालातिशयकालमानवैशिष्टयन दैशिकमिति। ननु दीर्घत्वं परिमाणभेदः, स च गुणस्तस्य च शरीरेन्द्रियसत्त्वात्मसंयोगलक्षणे गुणविशेषरूपे न सम्भाव्यते, एवमात्र यस्यापि कथमायुर्वेदज्ञानं स्यात्, यन्मूलमग्निवेशस्यायुर्वेदज्ञानं समीचीनमुच्यते, इत्याशङ्कमायुर्वेदस्याविप्लु तागमं दर्शयन्नाह दीर्घजीवितमित्यादि।-जीवितं शरीरेन्द्रियसस्वात्मसंयोगः; तच्च दीर्घमिति दीर्घकालसम्बन्धि, कालशब्दोऽप्यत्र लुप्तनिहिटो द्रष्टव्यः, यत्तन्त्रशैली चैवमाचार्य्यस्य, यत आदिमध्यान्तलोपान् करोति, ये लुप्ता अपि गम्यन्त एव, यथा 'ग्राम्यानूपौदकरसा' इत्यत्र मांसशब्दो लुप्तस्तथा दिग्धविद्ध इत्यन्त्र विषशब्दो लुप्त इत्यादि । अन्विच्छन्निति अनुरूपं दीर्घमिच्छन्निति। भरद्वाज इति गोत्रनाम, उग्रतपा इति विशेषणेन भरद्वाजस्य मानुषस्यापि इन्द्राभिगमनशक्तिः तथा शरण्यत्वप्रतीतिशक्तिश्च पदय॑ते ; अचिन्त्यो हि तपसां प्रभावो येनागस्त्यो महोदधिमपि चुलुकनिपेयमकरोत् । न च वाच्यमुग्रतपस्वेनैव किमित्ययमायुर्वेदमपि न बुध्यते ? यतस्तपःप्रभावोऽपि प्रतिनियतविषयत्वान्न सर्वत्र शक्रिमान् ; शक्तिश्चास्य कार्योन्नया, तेन गुरुनिरपेक्षायुर्वेदज्ञानलक्षणका-दर्शनात्, न तत् तपस्तन... समर्थमित्यवधारयामः ; किंवा गुरुपूर्वक्रमेणैवायुर्वेदज्ञानं फलतीतीन्द्रमुपागमदभरद्वाजः।..
'अथ कथं ब्रह्मादिष्वायुर्बेदपूर्वगुरुषु विद्यमानेषु इन्द्रमवायमुपागमत् ? युक्तञ्च प्रधानगुरोरेव श्रवणं, यतः शिष्यपरम्परासञ्चारिणी विद्याऽसम्यग ग्रहणादिदोषात् पात्रपरम्परासञ्चार्यमाणमधुवत् क्षीणापि संभाव्येत, अत आह-बुद्धा शरप्यममरेश्वरमिति ; यस्मादयमेवेन्द्रोऽल्पायुः, स एव भयतस्तानां यथा शरण्यो रक्षणहितो न तथा ब्रह्मादयः । तेन तमेवोपागमत् । अमरेश्वर इत्यनेन च इन्द्रस्य रक्षणोपयुक्ततां दर्शयति, राजा हि प्रजारक्षणे प्रयत्नातिशयवान् भवति ।
__“ननु दीर्घजीवितमन्विच्छनित्यत्र दीर्घस्याव्यवस्थितत्व'न कियरकालं तदीर्घमभिन्न तम् ? तत्र युगानुरूपं वर्षशतं, यदुक्क “वर्षशतं खलायुषः प्रमाणमस्मिन् काले"। एतच्च फलिकालादौ परमायुः, कालस्य यथा यथा क्षयस्तथा तथायुषः क्षयः ; यदाह “संवत्सरशते पूर्णे याति संवत्सरः क्षयम् । देहिनामायुषः काले यत्र यन्मानमिप्यते" ॥ एतदनुसारेण पूर्वयुगेष्वायुःप्रकर्षः, यदाह भगवान् व्यासः "पुरुषाः सर्वसिद्धाश्च चतुर्वर्षशतायुषः। कृते त्रेतादिकेऽप्य
For Private and Personal Use Only