________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
चरक-संहिता। पड़ विरेचनशताश्रितीयः (यन्त्रप्रपीड़नाद द्रव्याद रसः स्वरस उच्यते । यत् पिण्डं रसपिष्टानां तत् कल्क परिकीर्तितम् ॥ वहौ तु क्वथितं द्रव्यं शृतमाहुश्चिकित्सकाः॥ द्रव्यादापोथितात् तोये तत् पुनर्निशि संस्थितात् । कषायो योऽभिनि-ति स शीतः समुदाहृतः॥ निप्त्वोष्णतोये भृदितं तत् फाण्टं परिकीर्तितम् ॥ ८॥) गङ्गाधरः-अत्र स्वरसादीनां लक्षणानि केचित् पठन्ति, स्वरसादीन विवरीतुम् -- यन्त्रत्यादि। द्रव्यं कुट्टयिता यन्त्रण प्रपीड़नात् तस्माद द्रव्यान्निगेतो रसः स्वरस उच्यते। एतेन लवणद्रव्यस्य न स्वरसवं, किट्टत्यागेन रसाभावात् ।। यत् पिण्डमिति । दृशदि पिष्टानां द्रव्याणां यत् पिण्डं तत् कल्कं, पिण्डपदेन लवणद्रव्यस्य न कल्कवं. पिण्डवं हि पेषणान्न लवणद्रव्यस्येति कथितम् । ०। वह्नौ तु कथितं द्रव्यमिति द्रव्यं कुट्टयिखा यथाविधिना द्रवं दत्त्वा निष्पक कि विसृज्य निगतसारं शृतबाहुरिति। एतेन लवणस्य न शृतवं सम्भवति निष्पचनखायोग्यत्वात् । ०। द्रव्यादापोथितात् कुट्टितात द्रव्यात् तोये तु निशि संस्थितात् योऽभिनिता॑ति किट्ट विहाय यो द्रवरूपेण सह सारभागो निर्गच्छति स शीतः कषायः। अत्र तत्पुनरित्यस्य स्थाने प्रतप्तं इति पाठः साधुस्तत्रान्तरदशनात् तदनुदशयिष्ये । क्षिप्वत्यादि । द्रव्यादापोथितादिति विभक्तिं विपरिणम्य योज्यम् । तेन द्रव्यमापोथितम् उष्णतोये क्षिप्त्वा मृदितं यत् सारभूतं निर्याति किवज तन फाटं कपाय इत्यर्थः । उक्तं चान्यत्र ‘स्वो रसः स्वरसः प्रोक्तः कल्को दृशदि पेपितः। कथितस्तु शृतः शीतः शव्वरीमुषितो मतः। क्षिप्त्वोणतोये मृदितं फाष्टमित्यभिधीयते ॥" निशि संस्थितात् । कपायो योऽभिनिर्याति स शीतः समुदाहृतः ॥ फाण्टः कषाय इति कषायशब्दोऽयं स्वरसादिभिरपि सम्बध्यते, तेन स्वरसः कषायः, कल्कः कषाय इत्याद्यपि बोद्वव्यम् । तेषां स्वरसादीनां यथापूर्व बलाधिक्यमिति फाष्टाच्छीतो गुरुः शीतात शृतो गुरुरित्यादि । यतो यथापूर्व गुरुः कपायकल्पना, अत एव व्याध्यातुरबलापेक्षिणी व्याधेरातुरस्य च बलमपेक्षत इत्यर्थः। अत्रोपपत्तिमाह-न त्वेवमित्यादि। बलवति पुरुषे व्याधौ च दृव्यसारभागमयत्वेनात्यर्थ गुरुर्बहुकार्यकरः स्वरसो युज्यते, नायमापदले पुरुषे रोगे वा योगवान् स्यात ; बलशभेपजातियोगे दोषकत्र्तृत्वादिति भावः, एवमन्यत्रापि व्याख्येयम् । तथा न सर्वाणि स्वरसादीनि सर्वत्र पुरुषे
For Private and Personal Use Only