________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः सूत्रस्थानम् ।
२४७ तेषां यथापूर्व बलाधिक्यम् । अतः कषायकल्पना व्याध्याइति । एवमन्यत्रापि। “आहता तत्क्षणात् द्रव्यात क्षुण्णात् कीटादिवज्जितात् । वस्त्रनिष्पीड़ितो यस्तु रसः स्वरसः उच्यते” ।। तथा “शुष्कद्रव्यमुपादाय स्वरसानामसम्भवे । वारिण्यष्टगुणे साध्यं ग्राह्य पादावशेषितम् ॥ इति । एवं “कुड़वं चूर्णितं द्रव्यं क्षिप्त्वा तद द्विगुणे जले। अहोरात्रोषितात् तस्माद रसः स्वरस उच्यते ।। द्रव्यमाद्र' शिलापिष्टं शुष्क वा जलमिश्रितम् । तदेव कल्क आवापः प्रक्षेपः संज्ञयोच्यते ॥ द्रव्यमापोथितं पक्त्वा यथा संविधिना जले। प्रायेण पादः शेष्टव्य एप काथविधिः स्मृतः ॥ क्षुण्णं द्रव्यपल तूष्णैः षड्भिर्नारपल : प्लुतम् । निशोषितं हिमः स स्यात तथा शीतकषायकः ।। पभिः पल श्चतुर्भिर्वा सलिलाच्छीतफाप्टयोः । आप्लुत भेषजपलं रसाख्यायां पलद्वयम्" ।। इति । एवं च “जले चतुःपलेऽशीते क्षुण्ण द्रव्यपल' क्षिपेत । मृत्पात्रं मई येत् फाष्ट तस्माच द्विपल' भवेत्” ॥ इति। शृतकपाये द्रव्य जलमान' चिकित्सिते वक्ष्यमाणे काथानुसारेण बोध्यम् । तद यथा -- “कर्षादौ तु पलं यावद दद्यात् पोड़ शिक' जलम् । ततस्तु कुड़वं यावत् तोयमष्टमुणं भवेत्। चतुर्गणमतश्चोद्ध प्रस्थादिश्रुतिमानतः” ॥ इति । एतेन लवणद्रव्यस्य किट्टाभावेन पञ्चविधकषायकल्पनायामयोग्यखेन कषाययोनिखाभावान्न पट् कपाययोनयः, किन्तु पश्च वेति । अत एव कषायशब्दोऽय तन्त्रेऽस्मिन् मधुरादिपञ्चरसयोनिकस्वरसादिपञ्चविश्कल्पनाकल्पितेषु संज्ञासंशितो रूढ़ इत्यर्थः ॥८॥ ___ गङ्गाधरः एषां पञ्चविधक पायाणां प्रयोगार्थ बलाबलमाह-तेषामित्यादि। तेषां स्वरसकल्कशृतशीतकाप्टानां कषायाणां यथापूर्व पूर्वमनतिक्रम्य बलाधिक्य पूर्वपूर्व बलाधिकभुत्तरोत्तर बलाल्पमिति। अतः अस्मात् कारणात् कपायकल्पना व्याध्यातुरबलापेक्षिणी स्वरसादिरूपेण कषायं कल्पयितुं व्याधिबलाबलमातुरबलावल भिषजाऽवेक्षणीयं भवति । योग्यानि स्युः ;-यतः केचित् स्वरसद्विषः, केचित् स्वरसप्रियाः, केचिदितरकल्पनाद्विषः, एवमादि ; न चात्यर्थ द्विरभेपजस्य प्रयोग इष्यते, तत्क्षणवमनारुच्यादिदोषकत्र्तृत्वात् ; तथा कषायकल्पना व्याध्यातुरबलापेक्षिणी चेत्येतदुदाहरणार्थ ; तेन द्रव्यापेक्षिणीत्येतदपि बोद्ध यं, यतो द्रव्यनियमेन कल्पनानियमं वक्ष्यति रसायने, यथा- "मण्डूकपर्ष्याः स्वरसः प्रयोज्यः, क्षीरेण यीमधुकस्य चूर्णम् । रसो गुड़, च्यास्तु समूलपुप्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ॥” इति ।
For Private and Personal Use Only