________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
चरक-संहिता। पडू विरेचनशताश्रितायः परिसंख्यामनतिक्रम्य द्रव्यान्तरसंयोगेन व्याधिविशेषेण कल्पनाविशेषेण । कल्पोपनिषदीति-कल्पस्थाने वक्ष्यमाणे, कल्पस्य उपनिषदि विद्यायाम आयुर्वेदाङ्ग कल्पविद्यायामित्यर्थः । सद विशरणगत्यव सादेविति सदधातुना किप-कृदन्तले सिद्धमिदमुपनिषत्पदं, विद्याविद्ययोर्वर्त्तते। विद्या च द्विधा परा चापरा च, तत्र सैव परा यया तदक्षरमधिगम्यते यत्तददृश्यमग्राह्यमवर्ण्यमिति। अपरा च ऋग्वेदो यजुर्वेदः सामवेदोऽथव्ववेदः शिक्षा कल्पो व्याकरणं छन्दो निरुक्तं ज्योतिषमिति मुण्डकोपनिषदि द्रष्टव्यम् । यया विद्यया तदक्षरमुप अधिगम्यं मुमुक्षणां पुरुषाणाम् ऋग्यजुःसामाथव्व-शिक्षाकल्पव्याकरणच्छन्दोनिरुक्त-ज्योतिषविद्याया अपराख्याया अविद्यात्मिकायाः संसारप्रवत्तनलक्षणाया विशरणाद विनाशात् निनिश्चयेन तनिष्ठया ततक्षरस्य सद् सदन प्राप्तिरिति सा ब्रह्मविद्या यथोपनिषत्, तथा लोकद्वयश्रेयोऽधिगम्यम् ऋग्वेदादिविद्यया लोकद्वयश्रेयोरूपज्ञानपूवरखेवलक्षणाया लौकिक्या अविद्याया विशरणाद्विनाशात निश्चयेन तन्निष्ठया तत् सुखस्य सत् सदन प्राप्तिरिति सा द्विलोकीश्रेयस्करी खविद्याख्यापि वेदादिविद्या चोपनिषदुच्यते, तेन न तु केवलं ब्रह्मविद्यायामुपनिषत्पदं वर्तते। अत एव गीतासु ब्रह्मविद्यामपनिपस्वित्यक्तं भगवता वेदव्यासेन ॥३॥
विरेचनाद विरेचनशब्द लभते इति। न च वाच्यं, दोषमलविरेचनात चेद विरेचनसंज्ञा, तेन वस्ति-शिरोविरेचनयोरपि विरेचनसंज्ञाप्रवृत्तिः ; यतस्तन्त्रकारसिद्धयं संज्ञा न पाचकवत योगमात्रप्रवृत्ता, तन्त्रकारश्च वमन-विरेचनयोरेव योगरुढ़ां संज्ञां विदधाति नान्यत्र, तत् कुतोऽन्यत्र प्रसक्ति: ? षड़ विरेचनशतानीत्यादि स्वयमेवाचार्यो व्याख्यास्यति। पञ्च कपायशतानीत्यत्र कषायशब्देन मधुरादीनां लवणवर्जानां रसानां कपायत्वेन परिभाषितानामाश्रयत्वेनौषधद्रव्यमुच्यते । कपाययोनयः कषायजातयः । कपायाणां यथोक्तद्रव्याणां कल्पनमुपयोगार्थ संस्करणं कषायकल्पनम्। महाकपाया इति दशसंख्यावच्छिन्नस्यैककार्यकरणार्थोपात्तस्यौपधगणस्य संज्ञा, यद वक्ष्यति “दशेमानि जीवनीयानि इत्यादिना। संग्रहेगोदेशमात्रण । कल्प एवोपनिषत् कल्पोपनिषत्, उपनिषदित्यत्युपयुक्तरहस्यविद्योपदेशस्थानमुच्यते वेदे, तदिहापि कल्पस्याप्युपयुक्तत्वेन रहस्यवमनविरेचनप्रयोगोपदेशकत्वात् कल्प एवोपनिषदित्युच्यते ; न च वाच्यं कल्प एवं विस्तरेण षड़ विरेचनशतान्यभिधास्यन्ते, तेन च तदेवास्तु, अलमनेन संक्षेपाभिधानेन सम्यगवरोधानुपायत्वात् ; यतस्तन्वधर्मोऽयं यत् प्रथमं सूत्रणं स्यात्, तदनु तद्विवरणं प्रपन्चेन ; उच्यते च न्यायविद्भिः."ते वे विधयश्च सुसंगृहीताः स्युः, येषां समासो व्यासश्च” इति ॥ २....३ ॥
For Private and Personal Use Only