________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६ चरक-संहिता।
[ आरग्वधीयः तक्रण युक्त यवचूर्णमुष्ण सक्षारमर्त्ति जठरे निहन्यात् । कुष्ठं शताहां सवचा यवानां चूर्ण सतेलाम्लमुशन्ति वाते॥१२॥ उभे शताब मधुकं मधूकं बलां पियालच कशेरुकञ्च। घृतं विदारीञ्च सितोपलाञ्च कुर्यात् प्रदेहं पवने सरक्त ॥१३॥ रानां गुडूची मधुकं बले व सजीवकं सर्षभकं पयश्च । घृतञ्च सिद्धं मधुशेषयुक्तं रक्तानिलात्तिं प्रणुदेत् प्रदेहः ॥१४॥ इत्यन्तेनाद्धेनैकयोग एषोऽष्टादशयोगः । वा शब्दः पूर्वलेपापेक्षया, द्वात्रिंशतमिति वक्ष्यमाणत्वान्न तु एकश्चतुर्भिः स्नेहैदशमूलमिश्ररपरस्तु चतुर्भिः स्नेहैर्गन्धौषधमिश्र रेलादिभियुक्तः ; अत्र जलं पेषणार्थमनुक्तत्वात् ॥११॥
गङ्गाधरः-तक्रणेत्यादिना निहन्यादित्यन्तेनं कः, एप एकोनविशः। क्षारं यवक्षारम् । सर्वमन्यत् स्पष्टम् । ०। कुष्टमित्यादिना वाते इत्यन्तेनाद्धेनकः । एष विंशः। तैलमिह वातहरत्वात् यौगिकखाच तिलानामेव । अम्लं काजिकाद्यम्लं, द्रवद्रव्यं पेषणार्थम् ॥ १२ ॥
गङ्गाधरः-उभे इत्यादिना सरक्ते इत्यन्तेनैकयोगो दशभिर्द्रव्यरेष एकविंशः। उभे शताह मौरीशलुफ इत्याख्ये। घृतमनुक्तत्वाद गव्यं, विदारी भूमिकुष्माण्डं, सितोपलां सितशर्कराम् । 'भागानुक्तो समं मतम्” इति सर्व तुल्यं, जलमत्र पेषणार्थम् । सरक्त पवन इति वातरक्ते ॥ १३ ॥ ___ गङ्गाधरः-रास्नेत्यादिना प्रदेह इत्यन्तेनैकेन श्लोकेनैको योगो दशभिद्रव्यरेष द्वाविंशः। द्वे बले श्वेतपीतपुष्पभेदात्, अन्ये बला गोरक्षतण्डुला चेति बलाद्वयमाहुः। पयो घृतञ्च गव्यम् । मधुशेषः मच्छिष्ट मोम इति लोके। अत्र घृतं साध्यं प्रस्थमितमनुक्तखात् । तञ्च द्रवद्वैगुण्याच्छरावचतुष्टयम् । ऋषभकान्तं कल्करूपं सप्तद्रव्यं घृतपादिकं, 'कल्कस्तु स्नेहपादिकः' इत्युक्तः। पयश्च घृताच्चतुगुणं, सुतरां द्रवद्वैगुण्यात् पोड़शशरावमितम् ; 'द्रवकाय्येऽप्यनुक्ते तु सर्वत्राम्भश्चतुगुणम्' इत्युक्तः, अत्राम्भ इति द्रवमात्रोपलक्षणमिति। आभ्यां प्रतिपाद्यानि, गन्धौषधैश्च सिद्धैरिति योजनीयं, तेन दशमूलगन्धौषधाभ्यां स्नेहाः साधनीयाः; किंवा गन्धौषधैर्दशमूलसिद्धः स्नेहपृक्त रयं प्रदेहः। उशन्ति कथयन्ति, विदारी विदारीकन्दः, सितोपला सितशर्करा, मधुशेषः सिक्थकं । सिद्धमिति घृतदुग्धयुक्त यत्किञ्चिदेवाग्नौ साधितम् । नतं तगरपादिका, तदभावे शीउलोच्छोपगुड़को गृह्यते । प्रपौण्डरीकः पुण्डरीकं, लोहमगुरु, एरका
For Private and Personal Use Only