________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५
३य अध्यायः]
सूत्रस्थानम् । पर्णानि विष्ट्रा चतुरङ्ग लस्य तक्रण पर्णान्यथ काकमाच्याः। तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्त्तयेदश्वहनच्छदैश्च ॥ ६ ॥ कोलं कुलत्थाः सुरदारु रास्ता मापातसीतैलफलानि कुष्ठम् । वचा शतावा यवचूर्णमालमुष्णानि वातामयिनां प्रदेहः ॥१०॥
आनूपमत्स्यामिषवेशवारैरुष्णोः प्रदेहः पवनापहः स्यात् । स्नेहैश्चतुर्भिर्दशमूल मिर्गन्धौषधर्वानिलजित् प्रदेहः ॥ ११ ॥ स्थापयित्वोपरि वृक्षदान निर्गलितेन रसेन षोड़शशरावमितेन चापि द्वयेन साध्यानि पाच्यानि, दीपलेपम् आलोड़नदण्डलग्नं यथा स्तात्तथा पाच्यानि सिद्धानि वोध्यानि । एतत् परं कुष्ठनिमूदनाय लेपं प्रवदन्ति । यत्त्वत्र तुषोदकेन चतुगुणेन पलाशनिर्दाहरसेन वेति वदन्ति तन्न, द्वात्रिंशद योगाधिक खात् ॥८॥
गङ्गाधरः-पर्णानीत्यादिनाऽश्वहनच्छदैश्च त्यन्तेनैकः ।-चतुरङ्ग लस्य काकमाच्याश्च पर्णानीति अश्वहनच्छदैश्च ति त्रयं, तक्रेणैवेत्येको योग इति ने त्रयो योगास्तकं पेषणार्थम् । अत्र पिष्टानि चतुरङ्ग लपर्णादीनीति पञ्चदशः ॥९॥
गङ्गाधरः-कोलमित्यादिना प्रदेह इत्यन्तेनापरः, कोलादिभिरम्लान्तैदशभिद्रव्यः । अत्रातसी मसीना, तैलफलानि तैलयोनिफलानीति तिलफलैरण्डादीनि, अम्लमिति काञ्जिकादिकमालमेव द्रव्यं पेपणालेपनार्थम्, उष्णानि वह्निना कृतोष्णानि । प्रदेह एप पोडशः॥ १० ॥
गङ्गाधरः--आनूपेत्यादिना स्यादित्यन्तेनाद्धेन पुनरेकवाक्यम् ; एष सप्तदशः। अनूपो जलप्रायदेशस्तत्र चरतीत्यानूपो वराहादिः । आन्पश्च मत्स्यश्च तयोरामिषं मांसं, तेन कृता वेशवाराः, तत्तु “निरस्थि स्विन्न पुनःपिष्ट गुडघृतान्वितं पिप्पलीमरिचचूर्णाभ्यामनुरूपाभ्यां संयुक्त वेशवाराख्या” भवति। तैरुष्णः प्रदेहः बहल उपलेपः ।। स्नेहैरित्यादिना प्रदेह
चक्रपाणिः-चतुरङ्गलः स्वर्णहालिः, अश्वहनः करवीरः, चतुरङ्गलकाकमाच्यश्वहनच्छदैरेकः प्रयोगः । त्रित्वे ह्यस्य द्वात्रिंशत्संख्या वक्ष्यमाणा विरुध्यते। तैलयोनिफलान्येरण्ढफलतिलादीनि । अम्लमिति काञ्जिकादियोगात् । आनूपानां खड्गादीनां मत्स्यानाञ्चामिषं मांसम् आनूपमत्स्यामिपम् । वेशवार:-“निरस्थि पिशितं पिट स्विन्नं गुड़घृतान्वितम्। कृष्णामरिचसंयुक्त वेशवार इति स्मृतः” ॥ गन्धप्रधानान्यौपधानि गन्धौषधानि तानि चागु दीनि ज्वराध्याये
For Private and Personal Use Only