________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[आरग्वधोयः
રરૂ
चरक-संहिता। उभे हरिद्र कुटजस्य वीजं करञ्जवीजं सुमनःप्रबालान् । त्वचं समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात् ॥७॥ मनःशिला त्वक् कुटजात् सकुष्ठः सलोमशः सैड़गजः करञ्जः। ग्रन्थिश्च भौजः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन ॥ पलाशनिर्दाहरसेन चापि कर्बोदधतान्यादकसम्मिलेन । दप्रिलयं प्रवदन्ति लेपमेतत् परं कुष्ठनिसूदनाय ॥८॥ किन्तु स एव स्वरसः । अत्राधिकारात् कुष्ठहर इति लेप इत्यर्थे विशेषण बोध्यम् । ० । करञ्जवीजेत्यादिना प्रदेह इत्यन्तेनाद्धेन द्वादशो योगश्चतुर्भिद्रव्यैः करञ्जवीजादिभिगोमूत्रान्तैः। अत्र गोमूत्रं पेपणालेपनार्थम् । अत्राधिकारात् कुष्ठहर इति प्रदेह इत्यस्य विशेषणम् ॥६॥
गङ्गाधरः-उभे इत्यादिना विदध्यादित्यन्तेनैकं वाक्यं, योगश्चायं त्रयोदशः। अत्र हरिद्रे इति द्विवचनेन हरिद्राद्वयलाभे उभे इति पदं स्पष्टार्थम् । सुमनःप्रबालानिति जात्याः कोमलाङ्क रितपल्लवान् । खचं समध्यामिति हयमारकस्य इत्यनेनान्वयः। तेन करवीरस्य खक् तस्य चास्थि मज्जा च । तिलक्षारेति तिलनालभस्म तेन युतं लेपं हरिद्राद्वयादिकं विदध्यात् कुर्यादित्यर्थः। लेपशब्दस्याजहल्लिङ्गत्वेन तस्य विशेषणानां हरिद्राद्वयादीनां तल्लक्षणत्वेऽपि न स्खलिङ्गत्यागः ॥७॥
गङ्गाधरः-मनःशिलेत्यादि-कुष्ठनिमूदनायेत्यन्तमेकं वाक्यं योगश्च कोऽयं चतुर्दशः, नव भिद्रव्यः। अत्र खक कुटजादिति कुटजवल्कलं, लोमशा मौरी, ग्रन्थिश्च भौजों भूज्जग्रन्थिः । एतानि मनःशिलादीनि करवीरमूलान्तानि अष्टौ द्रव्याणि चूर्णानि चूर्णीकृतानि प्रत्येकेन कर्णोद्धृतानि तोलकद्वयमितानि तुषोदकेन सतुषकुट्टितयवकृतसन्धानविशेषेण जातकाञ्जिकेनाढकसम्मितेन इत्यन्तेनान्वयात् द्वैगुण्यात् षोड़शशरावमितेन । पलाशनिर्दाहरसेन चापि आढ़कसम्मितेनेति योजनायां, पलाशक्षस्य प्रधानमूलं छित्त्वा तदधः कुम्भमेकं प्रपुन्नाद एड़गजं, हयमारकः करवीरः तस्य त्वम् ग्राह्या, मध्यञ्च पृथग्भावेन ग्राह्य । तुषोदकं सतुषैर्यवैः सन्धानविशेषात् कृतं काञ्जिकम्। पलाशनिर्दाहेन गृहीतो रसः पलाशनिद्दाहरसः, स च पलाशस्य प्रधानमूले च्छिन्नेऽधः कुम्भं दत्त्वोपरिवृक्षदाहात् यो गलति स्वरसः स गृह्यते ॥३-८॥
For Private and Personal Use Only