________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
चरक संहिता |
सिद्धा वराहनिय यवागूर्व हणी मता । गवेधुकानां भृष्टानां कर्षणीया समाक्षिका ॥ १६ ॥ सर्पिष्मती बहुतिला स्नेहनी लवणान्विता । कुशामलक निर्यूहे श्यामाकानां विरूक्षणी ॥ १७ ॥ दशमूलीभृता कास- हिक्काश्वासकफापहा । यमके मदिरासिद्धा पक्वाशयरुजापहा ॥ १८ ॥
अपामार्ग तण्डुलीयः
विधाय शीतीकृत्यानुरूपं मधु प्रक्षिप्य पीता स्यात् पिपासानी ॥ विपन्नीत्यादिना खेकादशी । सोमराजी अवल्गुजा तया विपाचिता पेयाख्या यवागूविपनी भक्षितविषदोष' हन्ति ।। १५ ।।
गङ्गाधरः- सिद्धेत्यादिना द्वादशी । वराहनिर्यूहे वराहमांसरस || गवेधुकानामित्यादिना त्रयोदशी । गवेधुकानां गवेडूनां वीजानीति 'देवान' इति ख्यातानामिति केचित् भृष्टानां यवागूः समाक्षिका कपणीया स्थूल देहकर्षणाय हिता, अत्र गवेधुकावीजं तण्डुलस्थाने बोध्यम् ॥ १६ ॥
गङ्गाधरः सर्पिष्मती बहुतिला लवणान्विता तण्डुलकृता पेया स्नेहनी स्नेहजननी । बहुतिलां यथोक्तविधिना यवागूं विधाय घृतसैन्धवञ्चानुरूपं तत्र प्रक्षिप्य पीता सा स्नेहनी स्यात् ॥ कुशामलकनिय्यू हे इत्यादिना चतुद्दशी । कुशमलामलकफलयोः कष मात्रयोः शरावचतुष्टयजले मृतयोरशिष्टयोः कषाये यथोक्तविधिना श्यामाकतण्डलान् पत्त्वा कृता पेयाख्या यवागृविरुक्षणी रुक्षणकरणी ॥ १७ ॥
गङ्गाधरः - दशमूलीत्यादिना पञ्चदशी । स्पष्टेति केचिदत्र श्यामाकानामित्यनुवर्त्तयन्ति तत न यौक्तिकम् । यमके इत्यादिना षोड़शी । यमके युतमेवेति युगले घृततैले संभृष्टा द्रवस्थानीयायां मदिरायाश्च सिद्धा यवागूरित्यर्थः । अर्द्ध यमकम् अद्ध मदिरा ताभ्यां सिद्धा इति यावत इत्यन्ये । यमके इति मुद्गविदल' शालीनाञ्च तप्डलान मेलयित्वा मदिरया सिद्धेति परे ।। १८ ।
For Private and Personal Use Only
माम्लामिति बोध्यव्यम् । श्वदंष्ट्र त्यादौ जतूकर्णः "पृश्चिगोकण्टक गुड़ैमूत्रार्त्तिवस्तिशूलनुत् । " सुवर्चिका सज्जिकाक्षारः, पिपासानीति च्छेदः । सोमराजी अवल्गुजः, गवेधुको “गुलुञ्च," गवेधुकश्च तण्डुलस्थाने । श्यामाकस्तृणविशेषः, तस्य च वीजतण्डुला ग्राह्याः । यमके घृततैले, मदिरा