________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
चरक-संहिता। { अपामागतण्डुलोयः दधित्थविल्बचाङ्ग रो-तक्रदाडिमसाधिता।
पाचनो ग्राहिणी पेया सवाते पाश्चमूलिकी ॥ १०॥ मण्डश्चतुर्द शगुणे विलेपी च चतुर्गुणे ॥” इति। अत्र यवागूरिति पारिशेष्यात् पेया यवागः । “सिकथकै रहितो मण्डः” इत्यादुधक्तः । “कार्द्ध वा कणाशुण्ठ्योः कल्कद्रव्यस्य वा पलम् । विनीय पाचयेद युक्त्या वारिप्रस्थेन चापराम्” इति। तथा “यदप्सु शृतशीतासु पड़ङ्गादि प्रयुज्यते। कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेऽम्भसि ॥ अर्द्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ” इति । तथा “यवा मुचिताद्भक्ताच्चतुर्भागकृतां वदेत् ।” इत्येका यवागूः॥९॥ __ गङ्गाधरः-दधित्थेत्यादिना द्वितीया। अत्र तक्र जलस्थाने, दाडिमं दाडिमफलवीजम् । सवाते इत्यादिना तृतीया। पाञ्चमूलिकीति वातहरखात् वृहत्पञ्चमूलसाधिता। शालपादिपृश्निपणान्तेन साधिता चतुर्थी । सा च दाडिमाम्ला दाडिमरसेनाम्लरसा। पयसीत्यादिना पञ्चमी। छागे पयसि अद्धोदके यावन्मितं छागं दुग्धं तावन्मात्रादर्द्ध जलं तत्रैकीकृते पड़ गुणे शरावचतुष्टये बालकनीलोत्पलशुण्ठीः कपमानाः कल्कीकृत्य पेया पाच्या । षष्ठी तु पेया। तथा अर्द्धजले छागे पयसि पृश्निपा कल्कीकृतया कर्षमात्रया साधिता रक्तातिसारनीति । केचित्तु “पेयाशब्दोऽत्र प्रकरणात् पेयखाच्च यवायूसामान्यवाची, तेन त्रिविधयवा कल्पना बोध्येति” प्राहुः । तत् न, यवास्त्रिया न तु पेयेति । दद्यादित्यादिना सप्तमी । न चात्र पूर्वात् पयसीत्यनुवत्तते कर्मतया निई शात् । तेन कल्कतया वा कपायतया वाऽतिविषा"यदप्सु शृतशीतासु पड़गादि प्रयुज्यते। कर्षमात्र ततो द्रव्यं साधयेत् प्रास्थिकेऽम्भसि । अर्द्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ' इति, पेयां प्रति कर्पद्रव्याभिधानं मध्यवीर्य्यस्यापि षडङ्गस्य मन्दानलपुरुषाभिप्रायेण बोद्धव्यम् । वारिमानन्तु षड़ङ्गादिपरिभाषायां कर्षद्रव्ये वारिप्रस्थोऽभिहितः, तदनुसारेणान्यतापि जलोत्कर्षों बोद्धव्यः । कल्कसाध्या तु यवागूयंत्र स्यात् तत्र सूदशास्त्रोक्तपरिमाणाज्जलं ग्राह्य , यदुक्तं "अत्र पञ्चगुणे साध्यं विलेपी च चतुर्गुणे। मण्डश्चतुद्दशगुणे यवागूः षड्गुणेऽम्भसि । एतच्च “पञ्चगुणे” इत्यादि तण्डुलभेषजसमुदायाद बोद्धव्यम् । यवागूप्रकृतिभूततण्डुलमानन्तु सुश्रुतवचनात् बोद्धव्यम्। यदुक्त "विलेपीमुचिताद्भक्ताच्चतुर्भागकृतां भिषग्” इत्यादि, तथा “यवागूः स्वल्पतण्डुला' इति ॥ ९॥
चक्रपाणिः-पञ्चकोलसाधिता यवागुरादावुच्यते, पञ्चकर्मक्षीणाग्निवृद्धिहेतुत्वेन। दधित्थ: कपित्थः । तक्रमिह जलार्थकारकं, ग्राहिणीति च्छेदः। सवात इति सवातेऽतिसारे, यदुक्त शारीरे
For Private and Personal Use Only