________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः
२१६
सूत्रस्थानम् । मदन मधुकं निम्बं जीमूतं कृतवेधनम्। पिप्पलीकुटजेक्ष्वाकूण्येला धामार्गवाणि च ॥ उपस्थिते श्लेष्मपित्ते व्याधावामाशयाश्रये । वमनाथं प्रयुञ्जीत भिषग देहमदूषयन् ॥३॥ त्रिवतां त्रिफलां दन्तीं नीलिनी सप्तलां वचाम्। कम्पिल्लकं गवाक्षीञ्च क्षीरिणीमुदकीयंकाम् ॥
गङ्गाधरः-चमनद्रव्याण्याह-मदनमित्यादि । मधुकं यष्टीमधु तच्च स्थलजानूपजभेदेन द्विधा वमनादिप्रतिकर्मविशेषेण, जीमूतं घोषकभेदः, कृतवेधन ज्योस्निका लतापुटकीति लोके। इक्ष्वाकुस्तिक्तालावुः । एलां स्थूलैलाम् । धामार्गवो घोषकभेदः। दशैतानि उपस्थितश्लेष्मपित्तादौ देहमदूपयन् शरीरबलादाविरोधेन वमनार्थ प्रयुञ्जीतेत्यर्थः । एपां मदनमधुकद्वयजीमूतकृतवेधनकुटजेक्ष्वाकुनामार्गवाणां फलिनीषु पाठात् फल ग्राह्यम्। पिप्पल्येलयोश्च फल', निम्बस्य खक् ॥३॥
गङ्गाधरः--विरेकद्रव्याण्याह-त्रितामित्यादि । दन्ती नागदन्ती। नीलिनी नीली। सप्तला सातला चर्मकर्षति ख्याता। कम्पिल्लकं कमलागुडीति लोके। गवाक्षी गोडुम्बा। क्षीरिणी स्वनामखाता। उदकी- नाटाकरञ्जः। पीलूनीति पीलुफलम् । द्रवन्ती इस्वदन्ती। निचुलानि हिज्जल
चक्रपाणिः-वमनद्रव्ये आदौ मदनं प्राधान्यात्, उक्त हि “वमनद्रव्ये मदनफलानि श्रेष्ठतमान्याचक्षतेऽनपायित्वात् ।” उपस्थित इति आमाशयोर्द्ध भागे श्लेष्मणः स्थानं गत्वोत्क्क शं गतम् इति व्याख्येयम् । श्लेष्मपित्त इति-श्लेष्मपित्ते श्लेष्मणि पित्ते च । पित्तञ्च यद्यपि साक्षान वमनविषयं तथापि श्लेष्मस्थानगतत्वेन श्लेष्मसम्बन्धाद्वमनविषयं, यदुक्त "दोषस्थानगतं दोषं स्थानिवत् समुपाचरेत् इति । देहमदूषयन्निति यद्यपि वमने प्रोक्त तथापि विरेचनादिष्वपि बोद्धव्यम्, तत्राप्यतियोगायोगमिथ्यायोगैर्देहष्टिशङ्कायाः समानत्वात् । उच्यते च न्यायविद्भिर्यत् – “समानेष्वर्थेषु एकत्राभिहितो विधिरन्यत्राप्यनुषञ्जनीयः” इति ॥३॥ ___ चक्रपाणि:-वमनमनु विरेचनाभिधानं शिरःपूर्वकदेहशोधनाभिधानानुक्रमेणामाशयोद्ध भागशोधनानन्तरमामाशयाधोभागस्थितपित्तहरत्वेन । एवं विरेचनानन्तरं वस्त्यभिधानेऽपि वाच्यम् । त्रिवृदादावुच्यते विरेचनद्रव्येषु श्रेष्ठत्वात्, उक्त हि "त्रिवृत् सुखविरेचनानाम्' इति । नीलिका
For Private and Personal Use Only