________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
चरक-संहिता। अपामार्गतण्डुलीयः पीलून्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च। पक्वाशयगते दोषे विरेकार्थं प्रयोजयेत् ॥ ४ ॥ पाटलाञ्चाग्निमन्थश्च विल्वं श्योरणाकमेव च। काश्मय्य शालपर्णीश्च पृश्निपी निदिन्धिकाम् ॥ बलां श्वदष्ट्रां वृहतीमेरण्डं सपुनर्नवम् । यवान् कुलत्थान् कोलानि गुड़ची मदनानि च ॥ पलाश कत्तणञ्चैव स्नेहांश्च लवणानि च। उदावर्ते विबन्धेषु युज्यादास्थापनेषु च ॥ अत एवौषधगणात् सङ्कल्प्यमनुवासनम् । मारुतघ्नमिति प्रोक्तः संग्रहः पाञ्चकर्मिकः ॥ ५ ॥
फलानि। पकाशयगतदोष न खन्यत्र । त्रिसन्नागदन्तीसप्तलागवाक्षीक्षीरिणीद्रवन्तीनां मूलिनीषु पाठान्मूल ग्राह्यम्, नीलिन्याश्च मूल वचायाश्च। शेषाणां फलमिति ॥४॥
गङ्गाधरः--आस्थापनानुवासनार्थ द्रव्याण्याह-पाटलेत्यादि। दशमूल बलरण्डपुननेवायवकुलत्थ-वृहद्वदर-गुडूचीमदनफल-पलाश-गन्धतृणानीति विंशतिद्रव्याणि, तथा चखारः स्नेहा घृतादयः, पञ्च च लवणानि, इत्येकोनत्रिंशद द्रव्याणि उदावादिषु यथायोगं सङ्कल्पास्थापनेषु युञ्जयादिति ।
नीलवुह्ना, क्षीरिणी दुग्धिका, द्रवन्ती दन्तीभेदः, निचुलं हिज्जलमिति प्रसिद्धम् । पक्वश्चासौ आशयगतश्च ति पक्काशयगतः, तेन पित्ताशय एवामाशयाधोभागलक्षणे दोषो विरेचनविषयो भवति न पक्वाशयगतः। दोषशब्देन चेह विरेचननिहरणयोग्यत्वात् पित्तं कफपिक्त वा गृह्यते, यदुक्त "पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत् । स्रसनं त्रीन् मलान् वस्तिहरेत् पक्वाशयस्थितान्"। यदि वा पक्वाशयसमीपगतत्वेनाधःप्रवृत्तुपन्मुखो दोषः पक्वाशयगत इत्युच्यते यथा गङ्गायां घोष इति ॥४॥
चक्रपाणि:-पाटलामित्यादिनाऽनुवासनात् प्राक् निरूहाभिधानं, निरूहस्य दोषहरणप्रधानत्वात्। कत्तृणं गन्धतृणम् । स्नेहाः सर्पिस्तैलवसामज्जानः, लवणानि सैन्धवादीनि, रोगभिषगजितीये वस्त्यर्थ मुख्यान्युक्तानि गणेन । अत एवेति निरूहोक्तपाटल्यादिगणात् । सङ्कल्प्यमनुवासन
For Private and Personal Use Only