________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
चरक-संहिता। (अपामार्गतण्डुलीयः अजाजीञ्चाजगन्धाश्च पीलून्येलां हरेणुकाम् । पृथ्वीका सुरसां श्वेतां कुठेरकफणिज्झको ॥ शिरीषवीजं लशुनं हरिद्र लवणद्वयम् । ज्योतिष्मती नागरञ्च दद्याच्छीर्षविरेचने ॥ गौरवे शिरसः शूले पीनसेऽर्द्धावभेदके।
क्रिमिव्याधावपस्मारे प्राणना प्रमोहके ॥२॥ ख्यातानि धन्याकानि वा। अजगन्धा अजमोदा फोकान्दीत्यन्ये। पीलूनि खनामख्यातानि कोकणदेशे भूमिजानि आवराट इति लोके, तस्य फलानि । एलां स्थूलाम् । हरेणुकां स्वनामख्याता रेणुकामिति। पृथ्वीको सूक्ष्मैलाम् । सुरसां पर्णासभेदम् । श्वेतां श्वेतापराजिताम् । श्वेतां सुरसामिति श्वेतसुरसा श्वेतशे कालिकत्वन्ये। कुठे रकः पर्णासभेदः कृष्णतुलसीति ख्यात । फणिज्झकः प्रस्थपुष्पः स च मधुरजम्बीरः ‘महुर' इति लोके, पर्णासभेद इत्यन्ये । हरिद्रे द्वे । लवणद्वयं सौवर्चल सैन्धवश्च । ज्योतिष्मती लतापुटकी कारवेल्लसमपत्रा। एषां मध्ये श्वेताज्योतिष्मत्यो मलिनीपुक्ते, प्रत्यकपुष्पी फलिनीपु, तेनात्र श्वेताज्योतिष्मत्योम लमपामार्गस्य फल ग्राह्यम्, इह पुनः पाञ्चकम्मिकखोपसंहारे प्रोक्तमिति न पुनरुक्तम्। शीपविरेचनतया त्वेषां प्रयोगः सव्वस्मिन् व्याधावथ किं व्याधिविशेषे इत्यत आह-- गौरवे इत्यादि। प्रमोहको मूर्छा इन्द्रियापाटवं वा ॥२॥ विरेचनमादावभिहितम् । यदि वा, प्रधानाङ्गशिरःशोधनत्वात् शिरोविरेचनमादौ कृतम् ; यदुक्त "यदत्तमाङ्गमङ्गानां शिरस्तदभिधीयते' इति ; शालाक्येऽप्युक्त "अनामये यथा मुले वृक्षः सम्यक प्रवर्द्धते। अनामये शिरस्येवं देहः सम्यक् प्रवर्द्धते ॥” अपामार्गाभिधानमादौ शिरोविरेचनप्राधान्यात् ; यदुक्तं "प्रत्यकपुष्पो शिरोविरेचनानाम् ।” अजगन्धा अजमोदा, फोकान्धीति केचित्, पीलु औत्तरापथिकं फलं, लवणद्वयं लवणवर्गादिपठितं सौवचलं सैन्धवञ्च। अयं वर्गी व्यस्तः समस्तश्च शिरोविरेचने प्रयोज्यो गणत्वात्, यदुक्त “परिसंख्यातमपि हि यद द्रव्यमयौगिकं मन्येत तदपहरेत्” इति। अन्यत्राप्युक्त “समस्तं वर्गमद्धवा यथालाभमथापि वा” इति । शिरस इति गौरव इत्यनेन शूल इत्यनेन च सम्बध्यते। क्रिमिव्याधिरिह शिरोगत एव बोद्धव्यः, तत्रैव शिरोविरेचनस्य समर्थत्वात् । प्रमोहको मूर्छा, इन्द्रियापटुत्व वा ॥ १२॥ .
For Private and Personal Use Only