________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः। अथातोऽपामागतण्डुलीयमध्यायं व्याख्यास्यामः
इतिह स्माह भगवानात्र यः॥१॥ अपामागस्य वीजानि पिप्पलीमरिचानि च। विडङ्गान्यथ शिणि सर्षपांस्तुम्बुरूणि च ॥ गङ्गाधरः-अथ वमनादिपाञ्चकर्मिकभेषजानां स्वस्थातुरोभयसाधारणत्वेनोपदेशप्रसङ्गसङ्गत्या वमनादीनामुक्तद्रव्याणां योगे पुनः पञ्चकम्मोपयोगितया चापराणि च संशोधनद्रव्याण्युपदेष्टुमपामागेतण्डुलीयमयायमारभते। अथात इत्यादि। अत्राप्यथात इति पूर्ववद व्याख्येयम् । अपामार्गतण्डुलीयमिति अधयायारम्भे प्रथममपामार्गस्य वोजानीति पदं, तेनापामार्गस्य वीजीयमधयायमिति कत्तव्ये यत् तदर्थ गृहीखाऽपामार्गतण्डुलीयमिति कृतं तेनैतद गमितं-तण्डुला वीजान्यपामार्गस्य यानि ग्राह्याणि तानि निस्तुषीकृत्य तण्डुलान् गृह्णीयादिति। अपामार्ग तण्डुल उपयोगितया वाच्यो यत्र तदधिकृत्य कृत इत्यपामार्गतण्डुलीयस्त तथा। अधयायमित्यादयात्रेय-इत्यन्तं प्राग्वव्याख्येयम् ॥१॥
गङ्गाधर –अपामार्गस्य वीजानीति तण्डुलग्रहणयोग्यवीजानि, शिघ्रणि शोभाञ्जनवीजानि, सर्पपानिति अनुक्तौ श्वेतान्। तुम्बुरूणि स्वनाम
चक्रपाणिः-दीर्घञ्जीवितीये मूलिन्यश्च फलिन्यश्च पञ्चकाङ्गभूता उक्ताः, अपराध्यपि च पिप्पलीमरिचप्रभृतीनि पञ्चकर्मसाधनानि भवन्ति, तथा पञ्चकर्मप्रभृतिविषयोऽपि तत्र नोक्तः, तेनानन्तरं शेषपञ्चकर्मोपयोगिद्रव्यपञ्चकर्मप्रवृत्तिविषयाभिधायकोऽपामार्गतण्डुलीयोऽभिधीयते । पूर्वोक्तान्यपि चापामार्गादीनि यतः पुनरिहाभिधीयन्ते, तदाचार्य एवाध्यायान्ते "पूर्व मूलफल" इत्यादिना श्लोकद्वयेन समाधास्यति । अपामार्गवीजीय इति संज्ञायां प्राप्तायां अपामार्गतण्डुलीय इति संज्ञाकरणं अपामार्गादिवीजादीनां निस्तुघाणामेव ग्रहणार्थम्। अध्यायसंज्ञां तन्डुलेन कृत्वापामार्गस्य वीजानीति यद्वीजशब्दं करोति, तदारजननसमर्थवीजभवानामेव तण्डुलानां ग्रहणार्थम् । यद्यपि च इहोत्सर्गतः पञ्चकम्मप्रवृत्तिर्वमनपूर्विकैव स्यात्, यदुक्त "साधारणेवृतुषु वमनादीनां प्रवृत्तिर्भवति" इत्यादि ; तथा सुश्रुतेऽप्युक्तम् “अवान्तस्य हि सम्यग्विरिक्तस्याप्यधःस्रस्तः श्लेष्मा ग्रहणीमाच्छादयति' इत्यादि । तथापि क्वचित् प्रबलदोषापेक्षयाऽन्यथापि क्रमो भवति,. यथा-शरद्विक्त पिसे विरेचनादि, तथा प्रावृषि प्रबलवाते वस्त्यादिरित्यनियमार्थमिह शिरो
२८
For Private and Personal Use Only