________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
[ दीर्घञ्जीवितीयः
चरक संहिता | इति अग्निवेशक तन्त्र चरकप्रतिसंस्कृते श्लोकस्थाने दीर्घञ्जीवितीयो नाम प्रथमोऽध्यायः ।
गङ्गाधरः- अध्यायं समापयितु' मूलपूर्वकं स्वनामपूव्वकञ्च निवनाति अग्नीत्यादि । तत्र आयुर्वेदतन्त्रे एकदेशरूपे न तु कृत्स्नायुर्वेदरूपे चरकप्रतिसस्कृते । शब्दान्तरेण तदर्थकथन' प्रतिसंस्कारः । चरकेणाग्निवेशकृततत्रः प्रतिसंस्कृतः शब्दान्तरेण स एवार्थी विस्तरेणोक्तस्तस्मिंस्तत्र श्लोकस्थाने दीर्घञ्जीवितीयो नाम प्रथमोऽध्यायः ॥ १ ॥
इति वैदयकुलावतंसपरमपण्डित -श्रीलगङ्गाधररायकविरत्नकविराज-विनिर्मिते आयुर्वेदीयचरकसंहिताजल्पकल्पतरौ सूत्रस्थानादाष्टस्थान- जल्पाष्टकस्कन्धे प्रतिस्थानीयमत्यध्यायज ल्यप्रतिस्कन्धशाखे तत्प्रतिश्लोकजल्पप्रशाखे तत्तच्छ्लोकप्रतिपदजल्पपलवे परापरविदाकुसुमे लोकद्वयशुभफले सूत्रस्थानाख्यप्रथमस्कन्धस्य दीर्घञ्जीवितीयाख्यप्रथमाध्याय जल्पो नाम प्रथमशाखा ॥ १ ॥
1
प्रवर्त्तमिति इन्द्रादीनां भरद्वाजेन मत्तालोके प्रवर्तनमायुर्वेदग्रहणपय्र्यन्तम् । सूत्रणमित्यायुर्वेदतन्त्रकरणमग्निवेशादीनाम् । अभ्यनुज्ञानमिति तानि चानुमतानीत्यादि । शेषं सुगमम् ॥ ६१ ॥
इति चरकचतुरानन- श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थानव्याख्यायां दीर्घञ्जीवितोयो नाम प्रथमोऽध्यायः ॥ १ ॥
For Private and Personal Use Only