________________
Shri Mahavir Jain Aradhana Kendra
१म अध्यायः ।
www.kobatirth.org
सूत्रस्थानम् । त्यक्तरस्य पापस्य मृत्युभूतस्य दुर्मतेः । नरो नरकयाती स्यात् तस्य सम्भाषणादपि ॥ ५७ ॥ वरमाशीविषविषं कथितं ताम्रमेव वा । पीतमत्यग्निसन्तप्ता भविता वाप्ययोगुड़ाः ॥ न तु श्रुतवतां वेश वितः शरणागतात्। गृहीतमन्न पान वा वित्तं वा रोगपीड़ितात् ॥ ५८ ॥ feng तिमानतः स्वगुणसम्पदि ।
परं प्रयत्नमातिष्ठेत् प्राणदः स्याद् यथा नृणाम् ॥ ५६ ॥ दोषात् । एतेन वैदास्य दुःखितादिरोगिणेऽपि भेषजदानेऽवहेलनं निषिध्यते इति ज्ञापितम् ॥ ५७ ॥
गङ्गाधरः । - अथ वैदादोषोपन्यासप्रसङ्गेन वैदेव निषेधनीयमुपदिश्यापरच तत्प्रसङ्गात् वैदाप्रतिषेध्यमाह वरमाशीविषविषमित्यादि । यो वैदो वित्तार्थी चिकित्सति तेन वैदेनेत्यर्थाल्लभ्यते न तु श्रुतवतां वेशमित्यादु क्तः, तथा च। आशीविषविष सद्यःप्राणहरं कथितं वा ताम्रमेव सद्यः प्राणहरं तेन वैदेन वर पीतं दैन्यापन्नेन क्षुधातौ पूर्व्वकाले पीतम् । एवमत्यग्निसन्तप्ता वाप्ययोगुड़ा सद्यः प्राणहरा लौहगुड़िका तेन वैदेशन वरं भक्षिता यः स्वोदरभरणार्थं चिकित्सयार्थं नालभत तेन पुनः श्र तवतां वेदेऽश्रीतिनां वेशं विभ्रतः शरणागतात रोगपीड़ितादन्न पान वा वित्तं वा न तु गृहीत नागृह्यत । इदानीमपि न ग्रहीतव्यमिति ख्यापितम् । अन्यस्माच्च यस्मात् गृहीत' भवति तद्वक्ष्यते । एतेनैतदुक्त' भवति, वैद्यानामुदरभरणार्थं श्रुतवद्वे शधारिभ्यः किञ्चिदपि न ग्राह्य यदि क्षुध्या पीड़ितो वैद्यो भवति प्राणा यान्ति तदा प्राणहरद्रव्याण्यपि भुक्त्वा प्राणान् जह्यादिति ॥ ५८ ॥
गङ्गाधरः । ननु तदा भिषक् किं कुर्यादित्यत आह- भिषग्बुभूषुरित्यादि । अतो युक्त्यनभिशवैद्यतो भेषजाग्राह्यत्वात् तथाविधवैद्यप्रयुक्तोपधस्यदद्याद" इत्यादिप्रयोगे बोद्धव्यम् । न केवलमातुरेणैवाभिषजो भेषजं नादेयं किन्तु भिषजापि युक्तिवान भेषजमातुराय न देयमित्याह - दुःखितायेत्यादि ॥ ५४-५९ ॥
बिभ्रता इति चक्रपाणिधृतः पाठः ।
*
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२११