________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीर्घजीवितोयः
२१२
चरक-संहिता। तदेव युक्तं भषज्यं यदारोग्याय कल्पते । स चैव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत् ॥ सम्यकप्रयोग सर्वेषां सिद्धिराख्याति कर्मणाम् । सिद्धिराख्याति सव्वैश्च गुणैर्युक्तं भिषक्तमम् ॥ ६० ॥
आतुराणां निःशेषेण प्राणहरखात् दुःखितादिव्याधितेभ्यः प्राशमानितया भेषजस्याशानेन प्रदातृवैद्यसम्भाषणस्य नरकपातनहेतुखान् श्रुतवद्वेशधारिभ्यो
नादिग्रहणप्रतिषेधाच भिषग्नुभूषुर्जनो मतिमान् बुद्धिमान् स्वगुणसम्पत्ती वक्ष्यमाणवैद्यगुणसम्पत्ती पर' श्रेष्ठ प्रयत्न स्वगुणसम्पज्जननव्यापारमातिष्ठदाश्रयेदिति ।
ननु प्रयत्नस्य परवं कि' सततानुशीलनवं किमुक्तयुक्त्यनभिशानादिबज्जन' ? न तावत्तद द्वयमित्याह-प्राणद इत्यादि ॥ ५९॥
गङ्गाधरः । -उक्तयुक्त्यनभिज्ञानादिक वर्जयित्वा स्थितो वैद्यश्चेदातुरान् न चिकित्सति, तदा तस्य कि स्वगुणवत्तया ? यदि नणां प्राणदो वैद्यः स्यात्, तदा वैद्यगुणसम्पत्तिरुच्यते इति वैद्यगुणसम्पदुपन्यासप्रसङ्गेन भेषजगुणसम्पदुपन्यस्यति दृष्टान्तच्छलेन-तदेवेत्यादि। यद भेषजमारोग्याय कल्पते क्लिप्त भवति, तदेव भेषज' युक्तं भवति ; यदि तु नारोग्याय भवति, तदाऽमृतमपि युक्त भैषज्यं न मन्यते। तथा स एव भिपजां श्रेष्ठो यो वैद्यो रोगेभ्यो वै प्रमोचयेदातुरमिति शेषः। यो वैद्यो रोगेभ्यो नादुर' मोचयेत् तस्य सर्वगुणयोगेनापि किमिति भावः।
ननु शास्त्रोदितविधिविनिर्मितमौषध' यदि नारोग्याय भवति, तदा तत् कि न भेषज' ? सव्र्वगुणसम्पन्नश्च वैद्यो यद्यातुरान् न रोगेभ्यः प्रमोचयेत् तदा स किं न वैद्यः ? इत्याशयाह-सम्यक प्रयोगमित्यादि । कर्मणां प्रयोजनलक्षणानां सिद्धिनिष्पत्तिः सर्वेषां वस्तूनां सम्यक प्रयोगमाख्याति वक्ति प्रयोजनसिद्धव सम्यक्प्रयोगोऽनुमीयते फलाभावेन पुनरप्रयोग इति फलसाधकखाभावेन तद्वस्तु न वस्तु भवति, तत्फलसाधकं हि तद्वस्तु, तत्फलासाधकञ्च तदवस्तु इति ; यथा सदपि मृदादिकं घटादिकांसाधकं घटादिरूपेणासत् । भेषजमनारोग्यकरं
चक्रपाणिः-अथ सम्यगयुक्तस्य भेषजस्य किं लक्षणं किंवा उपादेयस्य श्रेष्टवैद्यस्य लक्षणमित्याह-तदेवेत्यादि । रोगेभ्यो यः प्रमोचयेदित्यनेन च ज्ञानपूर्व भेषजप्रयोगेण रोगहारकत्व
For Private and Personal Use Only