________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
चरक-संहिता। दाङ्गोवितायः ; तस्मान्न भिषजा युक्त युक्तिवाह्य न भेषजम् । धीमता किञ्चिदादेयं जीवितारोग्यकानिणा ॥ कुर्यानिपतिती मूद्धि सशेषं वासवाशनिः । सशेषमातुरं कुर्य्यान्न त्वज्ञमतमोषधम् ॥ ५६ ॥ दुःखिताय शयानाय श्रदधानाय रागिणे ।
यो भेषजमविज्ञाय प्राज्ञमानी प्रयच्छति ॥ गङ्गाधरः। -इत्थश्च नामादिभिरविज्ञातं द्रव्यं भेषज यदि विषवम् व्यवस्थितं तदा नामादिभिरनभिज्ञातवैद्याद द्रव्यं ग्राह्य न भवति, युक्तिज्ञ न तु वैदेन निम्मितं भेषजमयुक्तिवैद्यात् ग्रहीतुने दुष्टं भवखित्याशङ्कयाह-तसादित्यादि। तस्मात् तु दुयुक्तभेषजस्यापि विषोपमखात् युक्तिवाह्य न युक्त्यनभिशेन भिषजा युक्तं भेषज युज्यते पानार्थ दीयते यत् किञ्चित् भेषज तदपि जीवितारोग्यकाङ्गिणा धीमता नादेयम्, अयुक्तिभिषक्मयुक्तमेषजस्य विषतुल्यवाभिधानेन जीवितारोग्यव्याहन्तृवात्। नन्वयुक्तिशभिपायुक्त भेषजं नारोग्याय भवतु जीवितमपि कि हन्तीत्यत आह-कुर्यादित्यादि । वासवाशनिरिन्द्रस्य वज़ः सद्यःप्राणहरो मूर्द्धनि पतितस्तं पुरुष कदाचित् सशेष कुर्यान प्राणतो हन्यात्। अझयुक्तमोपधन्तु नातुरं सशेष कुर्यात् अपि तु सव्वदैवातुरप्राणान् हन्यादिति। तस्माच्च जीवितारोग्यकाङ्क्षिणा धीमता युक्तिवाह्य न भिषजा युक्तं किञ्चिदौषध नादेयमिति योज्यम् । न खविशातमौषधमिति पाठे स एवार्थः ॥५६॥
गङ्गाधरः।-अथ युक्त्यनभिशवैद्यप्रयुक्तभेषजाग्राह्यखोपन्यासेन वैद्यस्य युक्त्यनभिज्ञानं दोषः ख्यापित इति वैद्यदोषः प्रस्तावितो भवति। तत्प्रस्तावप्रसङ्गादपरश्च वैद्यदोषमाह-दुःखितायेत्यादिभ्यां द्वाभ्यां श्लोकाभ्याम् । यो वैदः प्राशमानी प्राशमात्मानं मन्तु शीलमस्य स भेषजमविज्ञाय भेषजस्य गुणकम्माणि न शाखा, अवज्ञायेति पाठे दुःखितखादिनावशां कुवन, दुःखिताय श्रद्दधानाय रोगिणे शयानाय सुप्ताय श्रद्दधानाय वा रोगिणे प्रयच्छति, तस्य त्यक्तधर्मास्यात एव पापस्य मृत्युभूतस्य मृत्युस्वरूपस्य दुम्मतेर्वेदास्य सम्भाषणादपि स्पर्शादितस्तु तिष्ठतु नरो नरकपाती स्यात् । तदा दुःखात्तवेन निद्रार्त्तवेन च तयो रोगिणोः श्रद्धया चात्मा समर्पितो वैदयाय भवतीति विश्वासघातिखादि
For Private and Personal Use Only