________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
सूत्रस्थानम् ।
२०६ औषध एनभिज्ञातं नामरूपगुणैस्त्रिभिः । विज्ञातमपि दुर्युक्तमनायोपपद्यते॥ योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत् ।
भेषजं वापि दुर्युक्त तीक्ष्णं सम्पद्यते विषम् ॥ ५५ ॥ यथा विपमित्यादि। विषशस्त्राग्निवजाणां सद्यःप्राणहरणवेन दृष्टान्तल वोध्यं ; दृष्टान्तबाहुल्य शिष्टानां सुखबोधार्थ स्तुत्यर्थश्च। औषधमोषधीमय' तत्कल्पितविकार वा। ऑपधीपदं जाङ्गमौद्भिदपार्थिवद्रव्यवाचक' बोध्यम् । अविज्ञातं, विज्ञातमित्युभयत्र, नामरूपगुण कम्भेभिरिति शेषः । अमृतमिति जरामरणादिहरखेन दृष्टान्तः ॥ ५४ ॥
गङ्गाधरः।-तत्र हेतुमाह --औषधं हीत्यादि। हि यस्मात् नामरूपगुणैस्त्रिभिव्यस्तैः समस्तैर्वाऽनभिज्ञातेन प्रयुक्तमौषधमनायाप्रयोजनाय व्यापत्तये उपपद्यते उपपन्नं भवति। अत्र गुणशब्दो गुणकर्मवाची समानाश्रयखात्। एवमस्तु नामरूपगुणस्त्रिभिर्विशातव्यं, कथं योगेनेत्याह-विशातमपीत्यादि। अपि नामरूपगुणकम्मे भिविशातमौषध दुर्युक्त मात्राकालदेशवयोवलाग्निबलायनुरूपेण सम्यग्योग विना उपयुक्त मिथ्यायोगायोगातियोगयुक्तमनर्थाय मरणान्तव्यापत्तये उपपद्यते। तस्मान्नामादिभिर्विज्ञातममृतवद्भवतीत्यर्थः।
ननु सम्यगयोगयुक्तं सम्मत्तये भवतीति प्रतिज्ञाव्याघातः सम्यगयुक्तमपि विषादिकं सद्यो हि प्राणान् हन्तीति शङ्कायामाह-योगादपीत्यादि। योगात् दोषधातुवयोवह्निवलबलशरीरप्रकृतिसत्त्वसात्म्यव्याधिबलान्यनुसृत्य द्रव्यान्तरेण संयुज्य देशकालमात्राभिः प्रयोगात् तीक्ष्णमपि विषं प्राणहरमपि उत्तमं सात्म्यं स्वस्थातुरपरायण च भेषज भिषगजितं भवेदिति, न तु प्राणहरणरूपेगानुवत्तते इत्यथः । ननु नाशकद्रव्यविकल्पितं हि दोषव्याध्युभयहरं भेषज भवति, तस्य च दुयोगेण किमस्तु वा दुय्योग इत्यत आह-भेषज वापीत्यादि। विषमिति प्राणहरवेन विषवत् ॥५५॥ मारयति, किञ्चिञ्च शस्त्रवत् मर्मच्छदं कृत्वा मारयति, किञ्चिच्चाग्निवत् स्फोटादिकं कृत्वा मारयति, किम्चिच्चाशनिवत् सद्यो मारयति। नामरूपगुणैरित्यनेन त्रित्वे लब्धे पुनस्त्रिभिरिति वचनं एकैकज्ञाननिषेधार्थ, तेन त्रिभिरेव मिलितैतिं भेषजं प्रशस्तमिति दर्शयति । योगं स्तौति-योगादपीत्यादि। विषञ्च सम्यगयोगात् भेषजं भवतीति "विषस्य तु तिलं
२७
For Private and Personal Use Only