________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०८
चरक संहिता |
योगविन्नामरूपज्ञस्तासां तत्त्वविदुच्यते । किं पुनर्यो विजानीयादोषधीः सर्व्वथा भिषक् ॥ ५२ ॥ योगमा सान्तु यो विद्याद देशकालोपपादितम् । पुरुषं पुरुषं वीक्ष्य स विज्ञे यो भिषक्तमः ॥ ५३ ॥ यथा विषं यथा शस्त्र यथाग्निरश निर्यथा । तथैौषधमविज्ञातं विज्ञातममृतं यथा ॥ ५४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ दीर्घञ्जीवितीयः
कर्म्मगुणाभ्यां निरूप्य मेलन प्रयोगं वा यो वेत्तिस योगवित् । आसामोषधीनां नामरूपज्ञः सन्नेव यो योगवित् स चौषधीनां तत्त्वविदुच्यते याथार्थ्यावेत्ता निद्दिश्यते । तत्रापि विशेषमाह - किं पुनरित्यादि । किन्तु यो जनः सर्व्वथा प्रतिपुरुषावेक्षणपूर्वकदेशकालोपपादितयोगशान' विना नामरूपगुणरसवीय्य विपाकप्रभावशानपूर्वक द्रव्यान्तरसंयोगं तथा रोगानुसारतः प्रयोगश्च ओषधीनां जानीयात् स भिषगुच्यते । तत्रापि विशेषमाहयोगमित्यादि । - तु पुनर्यो जनः पुरुष पुरुष वीक्ष्य प्रतिपुरुषं देहबलप्रकृतिसत्त्वसात्म्यदोषवलव्याधिबलाग्निवलवयोऽनुसारपूर्वकमासामोषधीनां नामरूपे अभिजानन् देशविशेषकालविशेषर्त्तु विशेषाभिज्ञानपूर्वकं मात्रयोपकल्पा द्रव्यान्तरेण संयोज्य वा कषायादितोऽप्युपकल्पा पानादिविधया योग' प्रयोगं विद्यात् स भिषक्तमो भिषक्षुत्तमो ज्ञेय इत्युथः । एतेन नामरूप मात्राणामजपादीनां तत्त्ववित्त्वभिषक्वभिषक्तमत्वानि न भवन्ति । एवं वनेऽजपादीनां नामरूपज्ञत्ववचनेन नामरूपानभिज्ञानात् पुरुषाणां तैर्नामरूपपरिचय विधेय इति ज्ञापितं भवति । उक्तञ्च सुश्रुते भूमिप्रविभागविज्ञानीयेऽध्याये सूत्रस्थाने" गोपालास्तापसा व्याधा ये चान्ये वनचारिणः । मलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते ॥” इति ।। ५२-५३ ॥
गङ्गाधरः । —ननु द्रव्यं स्वप्रभावादेव व्याधिं शमयेत् कथमोषधीनां तत्त्वाfor arrai भवतीत्याकाङ्गायामोषधीनां तत्त्वाद्यनभिज्ञायां दोषमाह - देशकालकृतं पुरुषं पुरुषं वीक्ष्येति वीप्सायां प्रतिपुरुषं प्रकृत्यादिभेदेन योगस्य प्रायो भेदो भवतीति दर्शयति । पुरुषशब्देन चेतनामात्रयोगिपुरुषोऽभिप्र ेतः ॥ ५१-५३ ॥
चक्रपाणिः- योगस्य औषधज्ञानाधीनत्वात् औषधाज्ञानस्य महानथकारितां बहुभिईन्तैदेशयति-यथा विषमित्यादि । विषादिबहुदृष्टान्तेनाज्ञातं भेषजं किञ्चिद्विषवत संज्ञानाशं कृत्वा