________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
१म अध्यायः ]
सूत्रस्थानम् ।
इत्युक्ताः फलमूलिन्यः स्नेहाश्च लवणानि च । मूत्र क्षीराणि वृक्षाश्च षड् ये दृष्टाः पयस्त्वचः ॥ ५० ॥ ओषधीर्नामरूपाभ्यां जानते ह्यजपा वने ।
विपाश्चैव गोपाश्च ये चान्ये वनवासिनः ॥ ५१ ॥ न नामज्ञानमात्रेण # रूपज्ञानेन वा पुनः । ओषधीनां परां प्राप्ति कश्चिदवेदितुमर्हति ॥
1
गङ्गाधरः- पुनर्वसु निदर्शित फलिन्यादिद्रव्याण्युपसंहरति- इत्युक्ता इत्यादि । - इतिशब्दः समाप्तौ । फलमूलिन्य इति फलिन्य एकोनविंशतिमू लिन्यः षोड़श । स्न ेहा महास्त्र हाश्चत्वारः । पञ्च लवणानि । मूत्रमष्टकम् | क्षीराणि चाष्ट | garer शोधनार्थाः षट, येषां दृष्टाः पयस्त्वचः । पयश्च त्वक् च प्रयोक्तव्यतया येषां ते पयस्त्वच इति । इति पुनर्व्वमुनिदर्शिता ये उद्दिष्टास्ते समाप्तप्रा नामगुणकर्म्म.भिरुक्ता भवन्तीत्यर्थः ॥ ५० ॥
For Private and Personal Use Only
गङ्गाधरः- ननु कथं नामगुणकम्मभिरुपदिष्टा नान व उपदिश्यन्तामित्यत आह - ओषधीरित्यादि । नामरूपाभ्यां नाम्ना आख्यया येन लोके परिचीयन्ते ओषधयः, रूपेण स्वरूपमूत, वने हि यस्मात्, अजपाश्छागलपालकारछागचारका इति यावत् | अविपा मेषचारकाः, गोपा गोचारकाः, एवमन्ये ये सन्न्यास्यादयो वनवासिनस्ते नामरूपाभ्याम् ओषधीर्जानन्ति ॥ ५१ ॥
गङ्गा वरः - ताभ्यामुपदेशेन किमुपकारो भिषजां को वा तेभ्योऽजपादिभ्यो भेदस्तेऽपि ताभ्यामुपदिशन्तीति चेत्तदा भिषजो भवन्तु व्यथत्रोपदेशः स्यादित्यत आह-न नामज्ञानमात्रेणेत्यादि । - रूपज्ञानेन वा स्वरूपमूत परिचयेनापि ओषधीनां परां प्राप्तिं परमं कम्प्रभावं गुणाधिक्यश्च । एतेनाजपालकाविपालकगोपालकवनवासिनां नामरूपज्ञानं तत्त्ववित्वं भिषक्तं वा बोध्यम् । तत् पुनः कस्येत्यत आह-योगविदित्यादि । योग द्रव्यान्तरेण तथापि वाह्यलेपनेन वहिः स्थितदोषसंशोधनं बोद्धव्यं; किंवा अपिशब्दात कृष्णगन्धाया अपि शोधनत्वमपि सूच्यते ॥ ४९॥५०॥
चक्रपाणिः -- उस्तानामोषधीनां योगज्ञानस्य प्राधान्यं दर्शयन्नाह - ओषधीरित्यादि : परां प्राप्तिमित्युत्कृष्ट ं व्याधिशरीराद्यपेक्षं सम्यग्योगं, योगो व्याधिशरीराद्यपेक्षया सम्यग् योजना भेषजस्य । सर्व्वथेति नामरूपयोगैः । योगमेव विशिष्ट दर्शयन्नाह - योगमित्यादि । देशकालोपपादितमिति
* रूपमात्र णेति वा पाठः ।