________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६ चरक-संहिता।
दीर्घजीवितीयः वमनेश्मन्तकं विद्यात् स्नुहीक्षीरं विरेचने । क्षीरमर्कस्य विज्ञयं वमने सविरेचने ॥४८॥ इमांस्त्रीनपरान् वृक्षानाहुर्येषां हितास्त्वचः । पूतीकः कृष्णगन्धा च तिल्वकश्च तथा तरुः ॥ विरेचने प्रयोक्तव्यः पूतीकस्तिल्वकस्तथा। कृष्णगन्धा परीसर्प शोथेष्वर्श:सु चोच्यते ॥ दद्रु विद्रधिगण्डेषु कुष्ठेष्वप्यलजीषु च ।
षड़ वृक्षान् शोधनानेतानपि विद्याद्विचक्षणः ॥ ४६॥ षोडशमलिनीनामेकोनविंशतिफलिनीनां मध्ये फलिनो वा मूलिनो वा इत्याह-पृथग ये फलमलिभिरिति । फलिनीभ्यश्च मूलिनीभ्यश्च पृथक भिन्ना ये'षड़ वृक्षाः शोधनार्था उक्तास्तेष्वपरेऽन्तर्गतात्रयो वृक्षा ये स्नुह्याश्मन्तकाः सुधाक्षाकन्दाख्यटक्षपाषाणभेदिनामकक्षास्तेषामिदं कम्मे पृथक् प्रत्येक शृणु। तद यथाह-वमनेऽश्मन्तकमित्यादि। अश्मन्तकं पाषाणभेदिनः क्षीर', स्नुहीक्षीर विरेचने स्पष्टम् । क्षीरमर्कस्येत्यादि सविरेचने वमने इति उभयतोभागहरणे॥४८॥
गङ्गाधरः - त्रीनुपसंहत्यापरांस्त्रीनुपर्दष्टुमाह-इमानित्यादि । इमानिति क्षीरिणो वृक्षांस्त्रीन, अपरानिति क्षीरिभिन्नान्, शोधनार्थान् त्रीन् वृक्षान् आहुयेषां खचो वल्का हिताः। तानाह-पूतीक इत्यादि। पूतिकः करञ्जः, कृष्णगन्धा शोभाञ्जनः, तिल्वको लोघ्रस्तरुरिति विशेष्यः। एषां वचोऽर्थादेव बोध्यम् । इति नाम्नोक्तिः। कण्यिाह-विरेचने इत्यादि । पूतीकतिल्लकवचौ विरेचनार्थे प्रयोक्तव्ये। कृष्णगन्धा परीसर्प शोथेष्वर्शःसु दद्रुविद्रधिगडेषु कुष्ठेष्वलजीषु दोषशोधनार्थ प्रलेपनादिविधिना प्रयोक्तव्या। उपसंहरतिषड् वृक्षानित्यादि। शोधनानेतानित्युक्त्या कम्मभिरुक्तिबोध्या॥४९॥
चक्रपाणिः-पूतीकः कण्टकीकरञ्जः, तिल्वको लोध्रः, तथा तरुरिति विशेषणेन पट्टिकालोभ्रं व्युदस्यति, शावरलोध्रन्च महाप्रमाणं तरुशब्दयोग्यं ग्राहयति, किंवा तरुविशेषणं बालं लोधं व्युदस्यति । षड् वृक्षान् शोधनानित्यत्र यद्यपि कृष्णगन्धायाः पञ्चकम्मण्यनभिधानात् न शोधनत्वं
For Private and Personal Use Only