________________
Shri Mahavir Jain Aradhana Kendra
२०४
www.kobatirth.org
चरक संहिता ।
و.
.
जीवनीयं श्रमहरं श्वासकास निवर्हणम् । हन्ति शोणितपित्तञ्च सन्धानं विहतस्य च ॥ सर्व्वप्राणभृतां सात्म्यं शमन शोधन तथा । तृष्णानं दीपनीयञ्च श्रेष्ठं चीणचतेषु च ॥ पाण्डुरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे । अतिसारे ज्वरे दाहे श्वयथौ च विधीयते ॥ योनिशुक्रप्रदोषे च मूत्रषु प्रदरेषु च । पुरीषे ग्रथिते पथ्यं वातपित्त विकारिणाम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
पृथक् क्षीराणां गुणकर्म्मणी वक्ष्यमाणे इति वक्ष्यमाणत्वात् । प्रायश इत्यनेन न स्त्रीक्षीरादौ सलवणत्वादिकञ्च बोध्यम् । शीतं वीय्यतस्तेन - पित्तं नाशयति, स्निग्धमधुरत्वाभ्यां वातं हन्ति त्रिभिः कफ वर्द्धयति । स्तन्यं स्तन्याय हितं स्तन्यजननमित्यथः । पय इत्यष्टविधमेव पयो मधुरस्निग्धशीतगुणं स्तन्यजननादिक्रियं प्रभावात् । प्रीणनं प्रीतिकरं वृंहणं देहपुष्टिकरं, वृष्यं शुक्रहितं मेध्यं मेधाहितं, बल्यं बलहितं, मनस्करं सुमनस्कताकरं मनोऽनुकूलमित्यर्थः । जीवनीयं जीवनहितमायुवर्द्धनमित्यर्थः । हन्ति शोणितपित्तञ्च रक्तपित्तरोगमित्यर्थः । सन्धानं विहतस्य चेति भग्नस्य संयोगकरणम् । सर्व्वप्राणभृतां सात्म्यमिति यथासम्भवजातीनां शैशवप्रभृतिस्तन्यपानेनैव जीवनात्, न सर्व्वप्राणभृतां सात्म्यं पक्षिकीटादीनां तदभावात् । परन्तु सजातीयविजातीययावद दुग्धं सर्व्वेषां स्वस्थानां प्राणिनां सात्म्यं स्यात् पीतमात्मना सकीभावः स्यादित्यर्थः । शमनं संशमनं, शोधन मलदोषहरण, तृष्णाघ्न',
नष्ठ क्षीणक्षतेषु च क्षीणवत्सु क्षतवत्सु चेत्यथः । प्रीणनत्वात् 'हणत्वात् दृष्यत्वात् बल्यत्वादित्यादि । पाण्डुरोगे इत्यादिना विधीयते इत्यन्तेनान्वयः । योनिशुक्रप्रदोषे च योनिदोषे शुक्रदोषे च । मूत्रेषु चेति विधायिनो मनसोऽपि स्वकर्म्मसामर्थ्यं स्यात्, एतदेव च नित्यस्येह मनसः करणं यन्मनसः प्रकर्षबुद्ध पत्कर्षादिगुणकरणम् । हन्ति शोणितपित्तमिति अवस्थाविशेषापन्नमेव शोणितपित्तं हन्ति, वचनं हि "कषाययोगैर्विविधैर्यथोक्त दप्तऽनले इलेप्मणि निज्जिते च । यद्रक्तपित्तं प्रशमं न याति तत्रानिलः स्यादनु तत्र कार्य्यम् ॥ छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे
For Private and Personal Use Only
[ दीर्घञ्जीवितीयः