________________
Shri Mahavir Jain Aradhana Kendra
१म अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
खरमूत्रमपस्मारोन्मादग्रहविनाशनम् ॥ इतीोक्तानि मूत्राणि यथासामर्थ्ययोगतः ॥ ४५ ॥ अथ चीराणि वक्ष्यन्ते कर्म्म चैषां गुणाश्च • ये n अवीचीरमजानीरं गोक्षीरं माहिषञ्च यत् । उष्ट्रीणामथ नागीनां बडवायाः स्त्रियास्तथा ॥ ४६ ॥ प्रायशो मधुरं स्निग्धं शीतं स्तन्यं पयो मतम् । प्रीणन वृंहणं वृष्यं मेध्यं बल्यं मनस्करम् ॥
२०३
For Private and Personal Use Only
खरमूत्रमिति गद्दभमूत्रम्, अपस्मारोन्मादग्रहाणां विनाशनम् । अत्र ग्रहा देवादयः स्कन्दादयश्च । उन्मादो दोषोन्मादो दोषभूतोभयरूपो वा । ग्रहाः स्कन्दादयोsर्कादयश्च न ज्योतिषा: 1 अत्र रसानुक्त्या सामान्यात् लवणान्वितकटुकं बोध्यम् । एषां यथास्वगुणकर्म्म सम्भारस्तु यथास्वाहारविहारादिभिस्तथात्वेन कोष्ठाग्न्याशय महिनाभिनिव्वर्त्तते ।
उपसंहरति-- इतिहोक्तानीत्यादि । यथासामर्थ्ययोगतः यथाशानबलेनेत्यर्थः । एतेनोपदेष्टुरेषां गुणान्तराज्ञानं नोन्नेयम् । उक्तेनैव शिष्याणां प्रयोक्त' सामथ्यंयोगात् ॥ ४५ ॥
गङ्गाधरः -- क्रमिकत्वात् क्षीराण्यांह - अथ क्षीराणीत्यादि । क्षीराणीति नामतः । एषां कर्म्मच गुणाश्च ये ते वक्ष्यन्ते । कानीत्याह - अवीक्षीरमित्यादि । नागीनामिति हस्तिनीनां, बड़वाया इति अश्व्याः, स्त्रिया इति मानुष्याः, प्रकरणात् क्षीरमिति शेषः । न तु अवीक्षीरमित्युत्तरपदेन सहावयोवृत्तिशब्देकदेशेनान्वयाव्युत्पन्नखात् ॥ ४६ ॥
गङ्गाधरः - नामतः क्षीराण्युक्त्वा गुणकम्मेणी आह- प्रायश इत्यादि । सामान्येन क्षीरगुणकम्पणी बोध्ये । यथाक्रमं क्षीरगुणमित्यनेन पृथक् रूपसुखकत्वात्, अधोभागमिति अधोमार्गेण पित्तं कर्षेत्; किंवा यदेवाधोगत पितं तदेव विरेचयति नो गम् । यथासामर्थ्ययोगत इति यादृशः शक्तियोगो मूत्राणां तथा ॥ ४३-४५ ॥
चक्रपाणिः - प्राग्रशो मधुरमिति प्राधान्येन मधुरं, तेन क्षीरमुष्टीणामीषलवणं तथा छागं कषायमित्यादौ रसान्तरस्याप्राधान्येनानुबन्धोऽपि क्षीरे भवतीति दर्शयति- प्रायश इति । वृंहणं स्निग्धमित्येताभ्यां तथा शीतमित्यनेन च सम्बध्यते तेनोष्ट्रस्य रूक्षोष्णत्वाभिधानं न विरोधि । स्तन्यमिति स्तन्यवृद्धिकरं, मनस्करमिति प्रभावादेव ओजस्करत्वाच्च ओजोवृद्धया हि तदनु