________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२ चरक-संहिता।
( दोघीवितीयः गव्यं समधुरं किञ्चिददोषघ्न क्रिमिकुष्ठनुत् ॥ कण्डूलं शमयेत् पीतं सम्यग्दोषोदरे हितम् । अर्श शोफोदरनन्तु सक्षारं माहिषं सरम् ॥ हास्तिकं लवणं मूत्र हितन्तु क्रिमिकुष्ठिनाम् । प्रशस्तं बद्धविणमूत्र-विषश्लेष्मामयार्श साम् ॥ सतिक्तं श्वासकासन्नमर्शोन्न चौष्ट्रमुच्यते ।
वाजीनां तिक्तकटुकं कुष्ठवणविषापहम् । लवणत्वेऽपि स्निग्धखात् पित्तेऽस्याविरोधो हासद्धिजनकताभावोऽस्यास्तीति मित्ताविरोधि । न तु वृद्धं पित्तं न विरोद्ध शील' यस्येति पित्ताविरोधि, पित्तशमकवालाभा । एतच्च प्रभावात् । __ आजमित्यादि। अजामूत्रं कपायमधुरं कषायानुमधुर सामान्यतो लवणं समकषायमधुरं वा सामान्येन लवणान्वितकटुकञ्च, पथ्यं स्रोतोहितं, दोषांस्त्रीन् निहन्ति च प्रभावात् ।
गव्यमिति। गोमूत्र प्रकरणात् समधुर किश्चित् लवणान्वितकटुकं किश्चिन्मधुरयुक्तं त्रिदोषघ्न क्रिमिकुष्ठनुस् । कण्डूल शमयेत् पीतं सम्यक् शमयेदित्यन्वयः । दोषोदरे वातादिजोदरे हितं न तु दुष्टोदरे हितं प्रभावात् ।
माहिषमूत्रकम्पेंगुणावाह-अर्श इत्यादि। शोफेन जातमुदरं शोफोदरं, शोफश्वोदरश्च तत्तथा वा हन्ति इति शोकोदरनं प्रभावात् । समारं लवणान्विततिक्त क्षारान्वितम् ।।
हास्तिकमिति । हस्तिन्या मूत्रं लवण लवणप्रधानतिक्तं पुनलवणग्रहणात् । बद्धविण्मूत्रविषश्लेष्मामयाशंसां प्रशस्तं प्रभावात् ।
औष्ट्रमूत्रस्य गुणकर्मणी आह-सतिक्तमित्यादि। सतिक्तमिति पुनरुक्त्या ईषत्तिक्तमीपल्लवणम। _ वाजीनामश्वानां तिक्तकटुकम् अत्र कटुशब्दो न तिक्ते, तिक्तस्य पुनरुक्त्या ईपल्लवमातितिक्तमध्यकटकम । कुष्ठवणविवापहवं प्रभावात् । इत्यादि। नपुंसकमूत्रन्तु अमङ्गलत्वान्न गृह्यते। अगदेष्वित्यनेनागदप्रयोगयौगिकत्वं । विषामित्यनेन च केवलस्यैव विषहन्तृत्वमिति न पौनरुक्तं च । शर्म चोच्यत इति आरोग्य
For Private and Personal Use Only