________________
Shri Mahavir Jain Aradhana Kendra
१ अध्यायः ]
www.kobatirth.org
सूत्रस्थानम् । दीपनीयं विषन्नञ्च क्रिमिन्नञ्चोपदिश्यते । पाण्डुरोगोपसृष्टानामुत्तमं & सर्व्वथोच्यते ॥ श्लेष्माणं शमयेत् पीतं मारुतञ्चानुलोमयेत् । कर्बेत् पित्तमधोभागमित्यस्मिन् गुणसंग्रहः ॥ सामान्येन मयोक्तस्तु पृथकत्वेन प्रवक्ष्यते ॥ ४४ ॥
विमंत्र सतिक्तं स्यात् स्निग्धं पित्ताविरोधि च ॥ आज कवायमधुरं पथ्यं दोषान् निहन्ति च ।
Acharya Shri Kailassagarsuri Gyanmandir
एषु रोगेषु यथोपयुक्तं तदाह - तद् युक्तमित्यादि । उपनाहे उष्णबहलोपदेहे, परिषेके अवगाहधौतादिरूपेण चकारात् पानादौ योगेषु च । प्रलेपसाध्ये व्याधिमात्रे विहितत्वख्यापनार्थमुपनाहेष्वित्युक्तं परिषेकसाध्यव्याधिसामान्ये विहितखख्यापनार्थ परिषेकेष्वित्युक्तम् । दीपनीयं वह्निदीपनं, विषधमिति केवलमेव सूत्रं विना द्रव्यान्तरयोगेण विषहरं, तेनागदेषु यौगिकत्वेऽपि न पौनरुक्तम् । क्रिमिघ्नमिति प्रभावात् कटुत्वाद्वा । पाण्डुरोगोपसृष्टानां सव्वथैव पानाहारभेपजादिकल्पनया उत्तमम् । श्लेष्माण शमयेदुष्णतीक्ष्णकटुकत्वात् । पीतमिति प्राधान्यात् पानतो गुणकथनं, पीतं च मारुतमनुलोमयेत् उष्णरुक्षलवणत्वात् ऊर्द्ध तिर्य्यक् च गामिन' बातम् अधोगमयेत् । पीतञ्च मूत्र पित्तमधोभागं कर्णेत् । यत् तु " यत् पित्तमधोभाग' तत् पित्तं कर्पेत् न तु गमित्युच्यते” तन्न; मूत्रसामान्यस्य वैरेचनिकत्वात् । अधोभागेन कषेणत्वस्यानुभवसिद्धत्वात् । उपसंहरति, इतीत्यादि । - अस्मिन् तन्त्रे इति गुणसंग्रहः सङ्घ पेण गुणोपदेशः मूत्राणामष्टानां सामान्येन मयोक्तः, स च पुनः पृथक्त्वेन प्रवक्ष्यते प्रत्येकं विशेषरूपेण प्रवक्ष्यते ॥ ४४ ॥
२०१
गङ्गाधरः - तद् यथा तदाह - अविमूत्रमित्यादि । सतिक्तमीषत्तिक्तान्वितलवण सरुक्षञ्च स्निग्धं चात एव पित्ताविरोधि । सामान्यत : उष्णतीक्ष्ण
शम्भ चोच्यते इति चक्रपाणिष्टतः पाठः ।
२६
पुंसां मूत्र शुकसम्बन्धात् गुरु, तन्न, शुक्रसम्बन्धस्य स्त्रीणामपि शुक्रवत्व ेन तुल्यत्वात्, वचनं . हि "यदा नारी च नार्य्या च मैथुनायोपपद्यते । मुञ्चतः शुक्रमन्योऽन्यमनस्थिस्तन जायते ॥"
For Private and Personal Use Only