________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
चरक-संहिता। [ दोघोवितीयः मूलत्वकसारनिर्यास-नाइवरसपल्लवाः । क्षाराः क्षीरं फलं पुष्पं भस्म तैलानि कण्टकाः॥ पत्राणि शुङ्गाः कन्दाश्च प्ररोहश्चौद्भिदो गणः ॥३७॥ मूलिन्यः षोड़शैकोना फलिन्यो विंशतिः स्मृताः।
महान हाश्च चत्वारः पञ्चैव लवणानि च । सुश्रुतेनाप्युक्तं “तत्र स्थावरेभ्यस्वकपत्रपुष्पफलमूलकन्दनिर्यासस्वरसादयः प्रयोजनवन्तो जङ्गमेभ्यश्चर्मानखरोमरुधिरादयः” इति। मूल शिफा, वक् वल्कल, सारः काष्ठान्तभूतः परिणतः, निर्थ्यासः स्वतो विनिर्गतवेष्टकं लाक्षास्वजरसमोचरसादि, नाई नाड़ीवल्लता, स्वरसः स्खो रसः। पल्लवाः किशलयाः, क्षारो भस्म प्रस्र तोदकृतः क्षारद्रव्यम्, क्षीरं क्षीरवन्निासः, फल पुष्पं स्पष्ट, भस्म दाहकृतभसितम् । तैलानि वीजप्रभवाः स्नेहाः, कष्टका इति स्पष्ट, पत्राणि पर्णानि किशलयभिन्नानि, शुङ्गा अग्रभागाः, कन्दाः फलहीनानामोषधीनां मूलरूपाः, प्ररोहा अवरोहा इति ॥ ३६॥३७॥
गङ्गाधर -अथैषां सप्रभेदानां जाङ्गमभौमौद्भिदानां द्रव्याणामनन्तत्वेन तेषां मध्ये संशोधनत्वेन प्राधान्यात् भगवत्पुनर्वसुनिदर्शितानि द्रव्याप्युपदेष्टुमाह,मलिन्य इत्यादिना निदर्शिता इत्यन्तेन श्लोकद्वयम्।-मूलिन्यः षोड़शोद भिदः; मूल प्रधान प्रयोक्तव्यतया विद्यते यासां ता मूलिन्यः षोड़श, एतेनासां मूल प्रयोज्यमिति शापितम् । एवमेकोनविंशतिः फलिन्य उद भिदः स्मृताः।
शब्देन सूचितं, उद्देशो शल्पकथनम् । सुधा गाङ्गटिका, आलं हरितालम्, अञ्जनं सौवीराजन, फलेवनस्पतिरिति विना पुष्पैः फलैयु क्ता वटोरुम्बरादयः ; यदुक्तं हारीते-"तेषामपुष्पाः फलिनो वनस्पतय इति स्मृताः।" पुष्र्वानस्पत्य: फलैरपीति पुष्पान्तरं फलभाज इत्यर्थः । फलस्य पाकादन्तो विनाशो येषां तिलमुद्गादीनां ते फलपाकान्ताः। अत्र केचित् 'फलान्ताः पाकान्ताश्वौषधयः” इति वदन्ति ; तेन विनापि फलं पाकेनैवान्तो येषां दूर्वादीनां तेऽपि गृह्यन्ते। प्रतानशब्देन लता गुल्माश्च गृह्यन्ते ; यदुक्त हारीतेन-"लता गुल्माश्च वीरुधः" इति। मूलत्वगित्यादौ-निर्यासो लाक्षासज रसादिः, औचिदो गण इत्यौधिदसम्भूतगणः ॥ ३६॥३७॥
चक्रपाणि:-सम्प्रत्यत्र व जाङ्गमौद्भिदपार्थिवद्रव्ये यत् प्रशस्तं तदाह-मूलिन्य इत्यादि । मूलं प्रशस्ततम यासां ता मूलिन्यः, एवं फलिन्योऽपि, षोडशेति छदः। महास्नेहा इति
For Private and Personal Use Only