________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३
म भध्यायः] .
सूत्रस्थानम् । फलैर्वनस्पतिः पुष्पैर्वानस्पत्यः फलैरपि ।
ओषध्यः फलपाकान्ताः प्रतानैर्वीरुधः स्मृताः॥ स्वेदजोद्भिज्जाः। तत्र पशुमनुष्यव्यालादयो जरायुनाः। खगसर्पसरीसृपप्रभृतयोऽण्डजाः। क्रिमिकीटपिपीलिकाप्रभृतयः स्वेदनाः। इन्द्रगोपमण्डक. प्रभृतय उद्भिज्जा इति ।” अत्रापि प्राणिनामाहारद्रव्यतया ओषधयो द्विविधा इत्युक्तं, न पुनः सबेथा द्विविधा ओषधय इति, यतस्तत्रैव सुश्रुतेनोक्त “पार्थिवाः सुवणेरजतमणिमुक्तामनःशिलामृत्कपालादयः। कालकृतास्तु प्रवातनिवातातपच्छायाज्योत्स्नातमःशीतोष्णवर्षाहोरात्रपक्षमासत्त्वयनसंवत्सरविशेषाः। तत्र एते स्वभावत एव दोपाणां सञ्चयप्रकोपप्रशमहेतवः प्रयोजनवन्तश्चेति”। प्रवातादय ओषधयो याः सुश्रुतेनोक्तास्ता अस्मिन्नध्याये चरकेण नोक्ताः, अपाश्चभौतिकलेनामूर्तलेन च भिपग्भिः प्रयोक्तुमयोग्यखात्। इत्यतो नाचाय॑स्य न्यूनता.वोध्या। _ अथ वनस्पत्यादिचतुष्क लक्षयति-फलैरित्यादि। पुष्पं विना फलेविशिष्ट उद्भित् वनस्पतिः वटोडुम्बराश्वत्थादिः। हारीतेनाप्युक्तम्- "तेषामपुष्पाः फलिनो वनस्पतय इति स्मृताः" इति । पुष्पैः फलैरपि वानस्पत्यः पुष्पानन्तरफलवान् । यस्तुं दृश्यते पुष्पवान् फलहीनः स च दोषकृत एव वस्तुतस्तजातिः फलवानेव भवति । फलपाकादन्तो नाशो यासां ता ओषध्यः । सत्यपि पुष्पफलवत्त्वे फलपाकान्तसविशेषधांदोषधिसमिति बोध्यम् । एवं सत्यपि पुष्पफलवत्त्वे प्रतानलतास्तम्बगुल्मादिभिर्विशिष्टा वीरुधः स्मृता इति।
उद्भिदां सभेदलक्षणमुक्त्वा तेभ्यो यद यद व्याधिषु प्रयोक्तव्यं तत्तदुपदेष्टुमाह,--मूलखगित्यादिना गण इत्यन्तेन साढे श्लोकेनति । अष्टादश द्रव्याणि मूलखगादीनि औद्भिदो गण उद भिद्भाः प्रयोक्तव्यो द्रव्यसमूह इति । प्रहणम् । समला इति मलशब्देन शिलाजतूनि लोहमलरूपाणि गृह्यन्ते, तच सुश्रु तदर्शनात् सुवर्णरजतादिभवं षड़ विधमेव गृह्यते, सुश्रु ते हि षविधमेव शिलाजतूतम् इह तु रसायने चतुर्विधमुक्त-"चतुभ्यों धातुभ्यस्तस्य सम्भवः । हेनोऽथ रजतात् ताम्राद्वरं कृष्णायसादपि" इति वचनात् । एतच्च वचनं रसायनाधिकारित्वं चतुर्विधस्य शिलाजतुनो दर्शयति, न तु पइविधशिलाजतुप्रतिषेधपरमिति न सुश्रुतेन समं विरोधः ; किंवा सुवर्ण निर्मलं समलाश रजतताम्रपुलोहा इति मिलित्वा पञ्च लोहाः । शिलाजतुपाषाणपजप्रभृतीनान्तु महणम् रहिष्ट
२५
For Private and Personal Use Only