________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
चरक-संहिता। [दीघञ्जीवितोयः भौममौषधमुदिष्टमौद्भिदन्तु चतुर्विधम् ।
वनस्पतिस्तथा वीरुद्वानस्पत्यस्तथौषधिः॥ प्रयोगात् स्वल्पप्रयोगाच्च पार्थिवानां जाङ्गमानन्तरं वक्तुमारम्भः-सुवर्णमित्यादि भौममौषधमुद्दिष्टमित्यन्तेन सपादेनैकश्लोकेन। विंशतिभौंममौषधमुद्दिष्टम् । सुवर्ण स्वर्ण पञ्च लोहाश्चेति पट, समलास्तेषां मलरूपाणि च पट् ; शिलाजतूनि चखारि सौवर्ण राजतताम्रायसानि, शिराटिका लोहमलं मण्डूरञ्चेति। पञ्च लौहा रजतताम्रत्रपुसीसकाललोहाः ससिकताः सिकताशकराखर्परादिभिः सहिताः। सुधा दारुमूपगोदन्तादयः पार्थिवविषरूपाः । मनःशिला स्वनामख्याता। आल हरिताल सपत्र निष्पत्रञ्चेति द्विविधम् । मणयश्चन्द्रकान्तादिमणि-मुक्ता-प्रबाल-मुक्तास्फोट-हीरक-वैक्रान्तादयः। लवण सैन्धवादिकम् । गैरिकं स्वर्ण गैरिकखटिकादिका गिरिमृत्तिका। अञ्जन सौवीराञ्जनरसाञ्जनकाशीसादिकम् । ___ औद्भिदमौषधमाह-औद्भिदन्वित्यादिपादत्रयेण। वनस्पतिरिति वनानां पतिरिति समासेन पुष्पं विना फलवति उद्भिदि वाच्ये सकारागमाद्रूपसिद्धिः पृषोदरादिखात् । वीरुदिति विशेषेण लताप्रतान विस्तृतीभूय वा रुणद्धि देशमिति वीरुत् । वानस्पत्य इति पुष्पफलाभ्यां प्रधान वनस्पतिक्षो वानस्पत्यः । ओषधिरिति उपदाहे ओषणे भूताग्निना आफलपाकादाधीयते इति ओषधिः फलपाकान्ता। यद्यपि औषधशब्देन जाङ्गमादित्रिविधमेव द्रव्यमुच्यते तथापि तदेकदेशेनोद भिदेकदेशफलपाकान्तोद्भिदप्युच्यते यथा तृणशब्दस्तृणजातौ तृणविशेषे च वर्तते । सुश्रुतेनाप्युक्त “प्राणिनां पुनर्मूलमाहारो बलवणोजसाश्च । स तु षटसु रसेष्वायत्तो, रसाः पुनद्रव्याश्रयाः, द्रव्याणि पुनरोषधयस्ता द्विविधाः स्थावरा जङ्गमाश्च ; तासां स्थावराश्चतुविधा वनस्पतयो वृक्षावीरुध ओषधय इति। तेष्वपुष्पाः फलवन्तो वनस्पतयः । पुष्पफलवन्तो वृक्षाः । प्रतानवत्यस्तम्बिन्यश्च वीरुधः । फलपाकनिष्ठा ओषधय इति । जङ्गमाश्चापि चतुविधा जरायुजाण्डजमेवोच्यते, तेन जलानिलाग्नवादीनामग्रहणादव्याप्तिर्न वाच्या। जङ्गमशब्देन जङ्गमप्रभवं गोरसमध्वाद्यपि ग्राह्यम् ; एवमौचिदपार्थिवयोरपि ग्रहण वाच्यं । रोचना गोरोचना। एतच्च मध्वादि प्राय उपयोगित्वात् प्राधान्यादुक्त, तेनाण्डवस्त्यादीनाञ्च ग्रहणं बोद्धव्यम् । यद्यपि जङ्गमानन्तरं बहुप्रपञ्चत्वेन प्रधानत्वादौद्धिदमुपदिष्टं तथाप्यबहुवक्तव्यत्वात् पार्थिवमेव जगमानन्तरं विप्रियते, तदनु वहुवक्तव्यमौद्भिदं । सुवर्णमित्यादि।-पञ्च लोहा इति ताम्ररजतनपुसीसकृष्णलोहानां
For Private and Personal Use Only