________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
१६१
सूत्रस्थानम् । तत् पुनस्त्रिविधं ज्ञयं जाङ्गमौद्भिदपाथिवम् । मधूनि गोरसाः पित्तं वसामज्जास्गामिषम् ॥ विगमूत्र चर्म रेतोऽस्थि स्नायुशृङ्गनखाः खुराः। जङ्गमेभ्यः प्रयुज्यन्ते केशा लोमानि रोचनाः ॥ ३६ ॥ सुवर्ण समलाः पञ्च लोहाः ससिकताः सुधा।
मनःशिलाले मणयो लवणं गैरिकाञ्जने ॥ करणमित्यर्थः । योगपारिभापिकी संज्ञा हि योगवृत्त्या प्रतिबाध्यते तया तल्लाभात् ॥३५॥
गङ्गाधरः-यद्यपि द्रव्यमिति खादिनवकं पाञ्चभौतिकश्च लभ्यते तथापि हि क्रियाविषेशेण विभज्य स्वरूपेण विभजति-तत्पुनरित्यादि। तन्मूर्तिमत् पाञ्चभौतिकं द्रव्यं भेदान्तरेणापि त्रिविधमस्मिंस्तन्त्र प्रयोक्तुमर्हवेन बोध्यं, तेन वाय्वादीनाममूर्त्तद्रव्यखेनानुपदेशेऽपि न न्यनतम् । तत् तु त्रिविधं विभजते जाङ्गमेत्यादि । जङ्गमानामिदमिति जाङ्गमम् । औद्भिदम् उद्भिद्य पृथिवीं प्राणी जायत इत्युद्भित्, तस्यावयवरूपमिदमौद्भिदं द्रव्यमित्यन्वयः। पृथिव्या अप्राणिप्राणिरूपाया विकाररूपं पार्थिवं पृथिवीप्रधानमस्य विकारस्य तद्वा पार्थिवमिति । तत्र जङ्गमश्चतुयौनिर्जरायुजाण्डजस्वेदजोद्भिज्जभेदात् । तद्भदमत्राप्रयोजनान्नोपदिश्य तद द्रव्यभेदेषु प्रयोक्तमहा॑णि यानि यान्यस्मिंस्तन्त्रे तान्याह-मधूनीत्यादि-रोचना-इत्यन्तसार्द्धश्लोकेन। मध्वादीन्यूनविंशतिद्रव्याणि जङ्गमेभ्यः प्रयुज्यन्ते । प्राधान्येन प्रायश उपयोगिखादेतानि निदिष्टानि तेनान्यान्यपि वस्त्याण्डादीनि ग्राह्याणीति बोध्यम् । आमिषं मांसं रोचनाः काले परिणामेन विशिष्टरूपं पित्तादि इति जाङ्गमम् ॥३६॥ .
यद्यपि जाङ्गमानन्तरमौद्भिदमुद्दिष्टमिति जाङ्गमविवरणानन्तरमौद्भिदविवरणमेव युज्यते, तथाप्यस्मिंस्तन्त्रे पार्थिवापेक्षया औद्भिदानां बहुप्रपञ्चलेन करवेन च रसादिस्रोतसाश्चानुगुणत्वेन धातुसाम्यानुवृत्तिकरमुच्यते, वचनं हि “पथ्यं पथोऽनपेतं यद" इति ॥ ३५॥
चक्रपाणिः-सम्प्रत्यन्यथा द्रव्यभेदमाह-तत् पुनरित्यादि । तदिति द्रव्यं । गच्छतीति जङ्गमं । उनिय पृथिवीं जायत इति औचिदं वृक्षादि। उक्तप्रकारद्वयातिरिक्तपृथिवीविकारः पार्थिवम् । संस्वेदजस्येह क्रिम्यादेजङ्गमेऽवरोधः, कुष्माण्डकादेश्व औचिदे। इह च द्रव्यशब्देन पार्थिवद्न्य
For Private and Personal Use Only