________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
चरक-संहिता। [ दोघजीवितीयः भेदेन त्रिविधमेव न तु संशोधनादिभेदन चयप्रकोपकादिभेदैन वाजीकरणरसायनादिभेदेन चापरिसंख्येयं धातूनां शारीराणां वातादीनां रसादीनां मलमूत्रादीनाञ्च सञ्चितानां वाह्यानामाभ्यन्तराणां वा दोषस्य वृद्धात्मकस्य संशोधनेन निहरणात् हान्यात्मकस्य वद्धनात् मानसानाञ्च रजस्तमोऽहङ्कारादीनां वैषम्यलक्षणस्य दोषस्य संशोधनादिना शमन हि प्रशमनमिति सुतरां प्रशब्दोपादान सङ्गच्छते।
एवं धातुप्रदूषण हि चयप्रकोपप्रसरस्थानसंश्रयैर्धातूनामव्यापन्नानां वातादीनां रसादीनां मनःश्रोत्रादीनां शारीराणां रजस्तमःसत्त्वबुद्धाहकाराणां मानसानाञ्च युगपत् साम्यनाश सक्षयद्धिस्थानापकर्षणलक्षणवैषम्यलक्षणां च दुष्टि जनयतीति । तथा स्वस्थपत्तौ मतमपि तद यत् स्वास्थ्यं रक्षति स्थिरञ्च स्वास्थ्यमतिमैथुनादिभिर्व्याघाताद्रक्षति जीवितादिकश्च न हासयति इति ।
दोषप्रशमन दोषप्रदूषणमिति न कारणे वातपित्तकफानां शारीरदोषसंशया रजस्तमसोश्च मानसदोषसंशया दोषशब्देन लाभः स्यान्न खन्येषाम् । किश्चिधातुप्रदूषणमिति च न कारणे रसादीनां धातुसंज्ञया लाभः स्यान्न खन्येषामिति, तन्निरासार्थं दोषशब्दधातुशब्दोपादानेन भावसाधनदोषशब्देन दूषकस्य कर्तृसाधनधातुशब्देन धारकस्य व्यावृत्त्याः परिग्रहात् रसादीनामपि दूषण वातादीनामपि प्रदूषण वक्ष्यमाण सङ्गच्छते इति कश्चित्, दोपवं वैषम्यवत्त्वं धातुख प्रकृतिमत्त्वम् । दोषप्रशमन विषमाणां साम्यकरण धातुप्रदूषण समानां वैषम्ययत् वैविध्यं रोगाणामुच्यते तत् खण्डितं स्यात् , किंवा मरिचादीनां यदुभयकत्त त्वादिक न तत् द्रव्यप्रभावकृतं, किन्तहि रसादिकृतम्, तेन न द्रव्यप्रभावप्रस्तावे उदाहरणीयम्। न च किञ्चिद् द्रव्यं तादृशमस्ति यत् प्रभावादेव किञ्चिद्दोषं करोति किञ्चिच्छमयतीति, न दोषप्रशमनत्वादिप्रभावं प्रति नियमः, अयमेव च पक्षः साधुः। ननु किञ्चिद्दोषप्रशमनं किञ्चिद्दोषप्रदूषणमिति वा क्रियता, क्रिञ्चिद्धातुप्रशमनं किञ्चिद्धातुप्रदूषणमिति वा ; नैवं, तथा सति दोषशब्दस्य मुख्यवृच्या वातादिष्वेव वृत्तित्वात् तथा धातुशब्दस्य रसादिवृत्तित्वात् उभयग्रहणं न प्राप्यते। उभयपदोपादानेन द्वयं निपुणकारी तन्वकारो दूषणत्वधारणत्वयोगपरिग्रहात् दोषप्रशमनेन दुष्टरसादिप्रशमनमपि भेषजं विविधाशितपीतीयादिवक्ष्यमाणं तथा धातुप्रदूषणेन वातादिप्रदूषकमपि निदानादिवक्ष्यमाणं ग्राहयति। प्रशब्दोऽत्र प्रकारे, तेन प्रकारेण मृदुमध्यादिना प्रकोपणं तथा प्रकारेण संशोधनं संशमनादिना संशमनमुच्यते ; किंवा धात्वर्थानुवृत्तावेव इमौ प्रशब्दौ, यथा-च्युतांशः परिधावतीत्यत धावतीत्यर्थः। आदौ दोषप्रशमग्रहणं तस्यैवेहाभिप्रेतत्वात्। ननु स्वस्थवृत्तिमतद्रव्यं भाविदोषहरत्वेन दोषप्रशमनमेव; नैवं, न हि स्वास्थयानुवृत्तिजनकत्वाद्दोषनिवृत्तिकरं दोषहरणमुच्यते कि तहि समधातूनामवर्द्धकत्वेनाभय.
For Private and Personal Use Only