________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः] सूत्रस्थानम्।
१८६ पित्तकरं मरिचादि तदोषप्रशमनं धातुप्रदूषणञ्चेत्युभयं न ह्य तावता द्रव्यस्य त्रैविध्यहानियथा पञ्च गुल्मा इत्यादौ संसर्गजगुल्मत्रयसम्भवेऽपि न पञ्चविधखव्याघात इति, किंवा यस्योभयकरखं तद्रसवीर्यादिद्वारेण व न तु प्रभावकृतमिति द्रव्यप्रभावाधिकारे तन्नोदाहाय्यं न हीदृशं किश्चिद द्रव्यमस्ति यत्प्रभावेणैकं दूषयत्येकं शमयतीति, स्वयमेवैतेनोपदिष्टमिति।।
वस्तुतस्तु स्वस्थवृत्तिमतमिति स्वस्मिन् शरीरमानसधातुसाम्ये स्थितस्य तत्वन दृत्तिवत्तेनं तत्र मतं हितसेवनेनाहितवज नेन जीवनरक्षणमिति यद द्रव्य तन्न धातुदृष्टिप्रशमन न वा धातुप्रदूषण', किन्तु धातुदूपकखाभावेन धातुदुष्ट्यां ज्वरादौ हितमेव प्रयुज्यते न तु प्रशमकलेन हिततया प्रयुज्यते न वा भाविदोषप्रशमसेन दोपप्रशमनमिति। यच्च द्रव्यं धातुप्रदूषक यस्य धातोर्या हानिरूपां वा दृद्धिलक्षणां वा दुष्टिं जनयति यथैवोपयुक्त तथवोपयुक्तं तस्य धातोस्तां दुष्टिं तद द्रव्यं न जनयत्येवेति वातकरं भवतु कफकरं पित्तहर दृद्धिकरं वा हानिकरं भवतु किन्तेनेति। यच्चापि द्रव्य दोपप्रशमनं यस्य धातोयां दुष्टि हानि वा वृद्धिं वा यथैवोपयुक्तं प्रशमयति तथैवोपयुक्तं तस्य धातोस्तां दुष्टिं तद द्रव्यं न जनयत्येवेति, वातकरं भवतु कफकरं पित्तहरं वृद्धिकरं वा हानिकरं भवतु किन्तेनेति । गुणतो रसतो वीय्यतो विपाकतः प्रभावतश्च धातुप्रदूषणं दोपप्रशमन स्वस्थवृत्तौ मतमिति मन्दकादिदोपकरं तदेव क्षीणदोषं प्रति वृद्धया शाम्योपादानेन दोषप्रशमनं स्यात् ; तदेवमव्यवस्थितत्वात् किञ्चिद्दोषप्रशमनमित्यादि विरुद्धम् । अत्रोच्यते--स्वस्थवृत्तिमतं रक्तशाल्यादि दोषप्रशमनमपि स्यात्, परं तत् प्रायः स्वस्थवृत्तिहितत्वात् स्वस्थवृत्तिमतत्वन गृह्यते, वचनं हि "स्वस्थस्योजस्करं यत्तु तद् वृष्यं तदसायनम्। प्रायः प्रायेण रोगाणां द्वितीयं शमने हितम् । प्रायःशब्दो विशेषार्थः, उभयं ह्य भयाथकृत् ॥” इति। दोषप्रशमनानि द्रव्याणि विगुणप्रकृत्यादिप्रतिबन्धकाभावे दोपप्रशमनमाचरन्त्येव, प्रतिबन्धकसम्भवे तु न कुर्वन्ति ; न चैतावता तेषां स्वस्वभावो न भवति; न चाग्निर्मणिविप्रतिबन्धनात् कदाचित् न दहतीति दाहकत्वेन नोपदिश्यते'; एवं धातुप्रदूषकस्यापि कदाचिद्धातुप्रशमकत्वं निमित्तान्तरयोगाद्भवेत्। न धातुदूषकः स्वरूपतां हन्ति, यथा सलिलस्याग्निसम्बन्धादुष्णत्व; तस्माद यद् यद् यस्य प्रायिकमनन्योपाधिकृतञ्च रूपं, तेनैव व्यपदेशो युक्तः। यच्च मन्दकादीनां क्षीणदोषवर्द्ध कत्व न दोषप्रशमकत्वं तद्विद्यमानमपि कादाचित्कत्वात् तथा साम्याय [ त्तरकालं दोषावहत्वाच्च न व्यपदिश्यते दोषप्रशमकत्वेन। ननु यद्यप्येवं तथापि यदेकदोषहरमपरदोषकरं यथा मरिचं श्लेष्महरं पित्तकरञ्च त्यादिवत्तु द्रव्यजातं तत् कुत्र प्रविशतु ? अत्रै के वदन्ति-यदुभयात्मकं तद्दोषहरं दोषकरञ्च, न चैतावता दन्यत्रित्वक्षतिः ; यतो वातादिसंसगजव्याधिसद्भावे वातादिजन्यत्वेन
For Private and Personal Use Only