________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
चरक-संहिता। (दीर्घजीवितीयः यस्मिन् देशे वयसि काले च प्रकृतिदोषवलस्वबलदेहबलाद्यनुरूपमात्रयोपयुक्त यद्धातुदुष्टिपशमक भवति, तदेव द्रव्यं तथा प्रयुक्त न तद्धातुदूपकं भवति न वा स्वस्थवृत्तिहितं भवति । एवं यद द्रव्यं यद्धातुप्रदूषण तद द्रव्यं न तद्धातुप्रशमकं न वा स्वस्थहितम् । यच्च द्रव्यं स्वस्थहितं तथा प्रयुक्त तन्न धातुदोषप्रशमनं न वा धातुदृषकमिति ।।
नन्वस्ति स्वस्थवृत्तिसम्मतरक्तशाल्यादीनां दोषप्रशमनख ज्वरादौ प्रयुक्तखेन बक्ष्यमाणखात्। कफदोषप्रशमनानामपि कटुकरसादीनां वातप्रदूषणसमिति यच्च धातुप्रदूषण तत् कफप्रशमनमिति, किञ्च येन द्रव्येण यो धातुः साम्यावस्थो इसति तेन द्रव्येणैव वृद्धावस्थः स धातुः समो भवति समो येन धाते क्षीणस्तेन समः स्यादिति कथं तथा व्यवस्थीयते इति चेन्न दोषप्रशमनानि हि द्रव्याणि विगुणप्रकृत्यादिप्रतिबन्धकाभावे दोषं प्रशमयन्त्येव प्रतिबन्धकसत्त्वे तु कुन्वन्ति न ह्य तावता तेषां दोषप्रशमनवस्वभावो व्याहन्यते, यथा सति हि प्रतिबन्धके मणिमन्त्र वह्निर्न दहति तावता तु वृद्धेन दाहकखस्वभावो व्याहन्यते। एवं धातुप्रदूषकस्यापि यदा निमित्तान्तरयोगात् धातुप्रशमकवं स्यात् तदा धातुप्रदूषणखाभावेऽपि निमित्तान्तरयोगं विना धातुप्रदूषकवस्वभावो न व्याहन्यते । यथाग्निसम्बन्धेन जलस्योष्णवन शीतस्वभावो न व्याहन्यते। कैवल्ये प्राधान्येन व्यपदेशो युक्तः । यच्च धातुप्रदषकं क्षीण वर्द्धयिता समकरं भवद्धातुदोषप्रशमनं भवति, तत् तु साम्यावस्थाकारकलेन न दोषावह एवेति दोषप्रशमकलेन न व्यपदिश्यते इत्याह कश्चित् । अन्ये खाहुयत् तु वातकरं ककहरं
युज्यते स त्वामलकप्रभावान्न स्यात् । धातुप्रदूषणमिति वातादीनां समत्वेन शरीरधारणात्मकानां तथा रसादीनाञ्च दूषण किञ्चित्, यथा-यवकमन्दकविषादि। सुष्टु अवतिष्ठते नीरोगत्व नेति स्वस्थस्तस्य वृत्तिः स्वस्थरूपतयानुवर्त्तनं तत्र स्वस्थवृत्तौ मतमभिमतं पूजितमिति यावत् । संख्येयनिर्देशादेव त्रित्वे लब्धे त्रिविधग्रहणं नियमार्थं, तेन संशोधनसंशमनादीनामनेकविधानामपि तत्र वावरोधः। रसायनवाजीकरणे तु स्वस्थवृत्तिमात्र एव ;-यदुक्त ‘स्वस्थस्योजस्करं यत्तु तद वृष्यं तदसायनम्" इति । प्रति प्रति तु पादे किञ्चद्ग्रहणं दोषहरत्वादिकर्मणां विभिन्नद्रव्याश्रयित्वोपदशनार्थम् । एककिञ्चिद ग्रहणे तु एकमेव द्रव्यं दोपहरं धातुप्रदूषकं स्वस्थवृत्तिमतञ्च स्यात्, न च तदभिमतम्। ननु सुस्थवृत्तिमतानां रक्तशालिपष्टिकयवादीनां दोषप्रशमनत्वमपि दृश्यते, यतो वक्ष्यति तत्र तत्र रक्तशाल्यादीनां ज्वरादौ प्रयोगं, तथा प्रकृतिशरीरदेशकालमात्राभियुक्त दोषप्रशमनमपि दोषकरं भवति, यथा-"आमलकमतिमात्रमग्निमान्द्याय" इत्यादि ज्ञयं, तथा धातुप्रदूषणमपि दोषप्रशमनं दृश्यते, यथा “विषमुदरहरम्,” तथा यदेव
For Private and Personal Use Only