________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७
१म अध्यायः]
सूत्रस्थानम् । किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणम् ।
स्वस्थवृत्तौ मतं किञ्चित् त्रिविधं द्रव्यमुच्यते ॥ ३५ ॥ विषमवातादिजयोपदेशेन मधुरादिरससहचरितगुणवीर्य्यसंज्ञानां गुरुलाघवशीतोष्णादीनां वातादिजयिखमुक्तमाचार्यण। आत्रेयभद्रकाप्यीये हि वक्ष्यति मधुरादिरसद्वारेणैव द्रव्याणां गुणवीर्यविपाकान् ; तद यथा-"तेषां षष्णां रसानामेकैकस्य यथाद्रव्यं गुणकर्माण्यनुव्याख्यास्यामस्तत्र मधुरो रसः शरीरसात्मप्रात्' इत्यादिभिरुत्वा मधुरादिरसगुणान्, ततः परम् “शीतं वीर्येण यद, द्रव्यं मधुरं रसपाकयोः। तयोरम्ल' यदुष्णं च यच्चोष्णं कटुकं तयोः। तेषां रसोपदेशेन निर्देश्यो गुणसंग्रहः। वीय्येतोऽविपरीतानां पाकतचोपदेक्ष्यते ॥” इत्यादि । तथा “कटुतिक्तकषायाणां विपाकः प्रायशः कटुः। अम्लोऽम्ल पच्यते स्वादुर्मधुरं लवणस्तथा” इत्यादि ॥३४॥
गङ्गाधरः। अथ रसद्वारेण द्रव्याणां गुणवीय्यविपाकसंग्रहणे धातुवैषम्यप्रशमनवमुक्त्वापि प्रभावजकर्मणोऽसंग्रहात् रसानां द्रव्याश्रितखाच्च शमनदूषणादिकम्मेणापि सोपसंग्रहणाय द्रव्यभेदमुपदिशति-किञ्चिद्दोषेत्यादि । द्रव्यमुच्यते इति द्रव्यशब्दस्य त्रिभिः किश्चित्पदैरन्वयः। किञ्चिदिति द्रव्यस्य द्रव्यखावच्छिन्ने दृत्तिमतो विशेषण द्रव्यखव्याप्यधम्मवद्वाचकं पुनः पठितवेन भेदमन्योन्यं गमयति, तेन यद द्रव्यं द्रव्यखव्याप्यधम्मेवद दोपप्रशमनं तद्भिन्नं द्रव्यखाव्याप्यान्यधर्मावद, द्रव्यं स्वस्थवृत्तिविहितद्रव्यखव्याप्यधम्मवद्भिन्नं च यत् तद द्रव्यं धातुप्रदूषणमिति त्रिःपठित-किञ्चित्पदेन परस्परं भेदो गम्यते नैकपठितेन परन्वभेद एव लभ्यते किश्चित् द्रव्यं दोषप्रशमनं धातुदूषण स्वस्थहितमित्यवगमात् । न चेष्टापत्तिरस्तु यद्धि द्रव्यं तथा “अम्लोऽम्ल पच्यते स्वादुर्मधुरं लवणस्तथा। शीतं वीर्येण यद् द्रव्यं मधुरं रसपाक्योः । तयोरम्ल यदुष्णञ्च यच्चोष्णं कटुक्रं तयोः” इत्यादिना ॥ ३४ ॥
चक्रपाणि:--अतोऽवशिष्टद्रव्यकार्य प्रभावकृतं वक्तुं प्रभावभेदेन द्रव्यभेदमाहकिञ्चिदित्यादि। किञ्चिदिति न सर्व, दोषस्य दोषयोर्दोषाणां वा प्रशमनं दोषप्रशमनम् । दोषग्रहणेन दुष्टा रसादयोऽपि गृह्यन्ते, तेन, द्रव्यमहिम्ना यद्दोषाणां दुष्टानां रसादीनां धातूनां वा शमकम् आमलकदुरालभादि तद् गृह्यते । आमलकं हि शिवत्वात् त्रिदोषहरं, दुरालभा चापि वातपित्तश्लेप्महरी । यद्यपि चामलकस्य "हन्ति वातं तदम्लस्वाद" इत्यादिना गुणद्वारा त्रिदोषहरत्वमुच्यते, तथापि तत् प्रभाववृहितमेव बोद्रव्यं, यतस्तत्राम्लत्वादिना पित्तादिकोपोऽपि
For Private and Personal Use Only