________________
Shri Mahavir Jain Aradhana Kendra
१म अध्यायः |
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
रसनार्थो रसस्तस्य द्रव्यमापः चितिस्तथा । निवृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः ॥ ३३ ॥
१८१
दोषं हन्ति करोति वा ।। पाको नास्ति विना वीर्य्यात् वीय्य नास्ति विना रसात् । रसो नास्ति विना द्रव्याद द्रव्य श्रेष्ठमतः स्मृतम् ॥ जन्म तु द्रव्यरसयोरन्योन्यापेक्षिकं स्मृतम् । अन्योन्याऽपेक्षिक जन्म यथा स्याद्देहदेहिनोः ॥ वीर्य्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः । रसेषु न वसन्त्येते निगुणास्तु गुणाः स्मृताः ॥ द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न पड़साः । श्रेष्ठ द्रव्यमतो ज्ञेयं शेषा भावास्तदाश्रयाः ॥ अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः | आगमेनोपयोज्यानि भेषजानि विचक्षणैः 11 प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः । नौषधीहेतुभिविद्वान् परीक्षेत कथञ्चन ॥ सहस्रेणापि हेतूनां नाम्बष्ठादिविरेचयेत् ॥ तस्मात्तिष्ठ तु मतिमानागमे न तु हेतुषु ॥” इति सुश्रुतेनोक्तम् ॥ ३२ ॥
गङ्गाधरः - तेन द्रव्यप्राधान्येऽपि द्रव्यगुणकर्म्मणामतिबाहुल्यात् स पेणोपदेशार्थ गुरुशीतादिगुणानां मधुरादिसामानाधिकरण्यात् प्रथमं रसोपदेश व्यवस्थिते रसस्वरूपमुपदिशति रसनार्थो रस इति । अर्थसंज्ञास्तु वक्ष्यन्ते “अर्थाः शब्दस्पर्शरूपरसगन्धा मनसस्तु चिन्त्यमर्थः” इति रसनस्य योऽथेः स रसः । अर्थों हि समानयोनिकं वस्तु तत्र यद्यद्योनिकं तत् तस्य तद योनिक वस्तु । तथा हि रसनमाप्यमिन्द्रियं रसोऽप्याप्य इति रसनार्थी रस इति शापयितुमाह, तस्य द्रव्यमाप इति द्रव्यं गुणकर्माश्रयसमवायिकारण प्रकृतिभूतकारणमित्यर्थः ।
ननु द्रव्यमिति किं रसस्याश्रयरूपं कारणं किं ग्रहणे कारणमित्यत आहनि तौ चेति । निवृ त्तिरुत्पत्तिः । रसस्योत्पत्तौ द्रव्यं गुणकर्म्माश्रयसमवायि
For Private and Personal Use Only
चक्रपाणिः -- सम्प्रति दोषानभिधाय तत्प्रशमनप्रधानान् रसान् वक्तुमुद्यतो रसलक्षणपूर्वकं रसोत्पत्तिक्रममाह – रसनार्थ इति । रस्यत आस्वाद्यत इति रसः रसनार्थ इति जिज्ञाग्राह्यः । एतच षण्णामपि रसानामनुगतं रूपादिषु च व्यावृत्तत्वात् साधु लक्षणम् । तस्येति रसस्य, द्रव्यैमित्याधारकारणं, द्रव्यशब्दो ह्याधारकारणवाची, यथा - " - " पन्चेन्द्रियद्रव्याणि” इति । क्षितिस्तथेति यथा आप आधारकारणं तथा क्षितिरपि, अक्षिती व्यक्तव्ये, क्षितिस्त्वग्रे प्रतिवचनात् क्षितेराधारका रणत्वममुख्यमिति दर्शयति, येनापो हि निसर्गेण रसवत्यः । तथा भद्रकीये " सौम्याः खल्वापः" इत्यादिना जल एव रसस्य व्यक्तिरिति दर्शयति ।