________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
[ दीर्घञ्जीवितीयः
चरक संहिता |
5
1
कारणमापः, यस्मिन् द्रव्ये जायमाने रसश्चाभिव्यज्यते तस्य जायमानद्रव्यस्य क्रियागुणवत् समवायिकारणमापः । आप एव हि रसतन्मात्रात्मिकास्तत्र यद्रसमात्रं तदेवेह किं रसनार्थपदेनाभिहितं न हि तद्रसमात्र रसनेन्द्रियस्य ग्राह्योऽर्थोऽतीन्द्रियत्वात् । तज्ज्ञापनार्थमाह- क्षितिरिति । पूर्वपूव्वभूतानुप्रवेशेनव जायमाने स्थूलजले चतुरात्मकेऽव्यक्तरसरूपेणाभिव्यज्यते, तासां चतुरात्मिकानामनुप्रवेशेन क्षितिस्तथैव रसाश्रयद्रव्यं पश्चात्मिका, न तु गन्धतन्मात्रा क्षितिरिति ख्यापितम् । “ कार्य्यं हि समवायिकारणैवाद्रव्याणि गुणाश्च गुणैरारभ्यन्ते इत्यात्रेयः " भद्रकाप्यस्तु “ रसतन्मात्रं जल सूक्ष्मं निरवयवं तदेव तेजोऽनुप्रवेशेन यज्जलं जातं तत्र योऽव्यक्तरसो निष्पाद्यते स रसतन्मात्ररूपजलादनन्यः” इत्याह पाञ्चभौतिकद्रव्यगतरसस्य स्थूलजल द्रव्यमिति बोध्यम् । सुश्रुतेऽप्युक्तं रसविशेषविज्ञानीयेऽध्याये | “आकाशपवनदहनतोय भूमिषु यथासामेकोत्तर परिवृद्धाः शब्दस्पर्श रूपरसगन्धास्तस्मादाप्यो रसः" इति । सर्व्वभूतचिन्ताशारीरेऽप्युक्तम् “आकाशादीनां कर्म्मगुणास्तत्राप्यस्तु रसो रसनेन्द्रियं सर्व्वद्रवसमूहो गुरुता शैत्यं स्त्र हो रेतश्च ति । ” स्वयमप्येवं वक्ष्यति । इत्थञ्च तन्मात्ररसो रसत्वं रसाभावश्च न रसनार्थस्तेषां रसनसमानयोनिकत्वाभावादत्र मधुराद्यन्यतमस्य कद्रायन्यतमैः सह भेदेऽपि सति पृथकृत्खाख्योऽभावत्वेन ग्रहदशायां रसनार्थत्वमस्ति रसत्वमप्यस्ति इत्यतो रसाभावे रसेतरत्वविशेषण', यत् तूच्यते परेण “यथाश्रुतलक्षणस्यास्य रसत्वे रसाभावे चातिप्रसङ्गादतीन्द्रियरसे चाप्रसङ्गाद्रसनेन्द्रियग्राह्यरति गुणखावान्तरजातिमत्त्वं रसत्वमिति लक्षण बोध्यमिति ।" अत्र रसनेति पदं रूपादीनां ग्राहकचक्षुरादीनां व्यवच्छेदार्थम् । वातादिदूषितरसनस्यारुचिवशाद्रसस्य रसनाग्राह्यत्वेन तत्राव्याप्तिवारणाय इन्द्रियेतिपदम् । रसनेन्द्रियवृत्तिरूपादितत् सुश्रुतेऽप्युक्तं " तस्मादाप्यो रसः" इति । क्षितिस्त्वपामेव रसेन नित्यानुषक्त ेन रसवतीत्युच्यते, यतो नित्यः क्षितेर्जलसम्बन्धः; वचनं हि - 'विष्ट' ह्यपरं परण" इति, अस्यार्थः–खैवाय्वग्निजलक्षितीनामुत्तरोत्तरे भूते पूर्वपूर्व्वभूतस्य नित्यमनुप्रवेशः, तत्कृतश्च खादिषु गुणोत्कर्षः । रसस्य किं व्यक्तौ अक्षिती कारणं किंवा विशेष इत्याह - निर्वृतावित्यादि । निवृत्तौ चाभिव्यक्तौ । एतेन रसोऽभिव्यज्यमानो जलक्षित्याधार एव व्यज्यत इति दर्शयति : चकाराद्विशेषेऽपि मधुरादिलक्षणे अपेक्षिती प्रत्ययौ तेन " सोमगुणातिरेकान्मधुरः, पृथिव्यग्निगुणातिरेकादम्लः" इत्यादिना जलपृथिव्योरपि विशेषकारणत्वं वक्ष्यमाणमुपपन्नं । विशेषे च प्रत्ययाः खादय इति मधुरादिविशेषनिवृत्तौ निमित्तकारणं खवाखनलाः, न
'
;
For Private and Personal Use Only