________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८० चरक-संहिता।
( दीर्घजीवितीयः ननु यथा रसानां वातादुरपशमकलेनोपदेशोऽस्ति तथा द्रव्याणामपि, यथा "आमलक्यादिरित्येष गणः सव्वज्वरापहः। चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः” इत्यादि इति चेन्न, रसाः प्रधानमनुमानात् । “रसेन ह्यनुमीयते द्रव्यं यथा मधुरमिति”।
ननु रसेनानुमीयते द्रव्यं द्रव्येणापि रसनायोगेन रसमनुभवतीति द्रव्यमेव प्रधानं न तु रसा इति चेन्न “रसाः प्रधानमृषिवचनात्। ऋषिवचनं हि वेदो यथा किञ्चिदिज्यार्थं मधुरमाहरेदिति”। तस्माद्रसाः प्रधानम् । रसेषु गुणसंज्ञा गुरुखादयः समानाधिकरणबेन व्यवस्थिताः। रसगुणेषपदेक्ष्यामः ।
"तन्नेत्याहुरन्ये । वीर्य प्रधानम्, कस्मात् ? तद्वशेनौषधकर्मनिष्पत्तेः। इहौषधकप्यूिर्वाधोभागोभयभागसंशोधन-संशमन-संग्राहकाग्निदीपन-प्रपीड़नलेखनहणरसायनवाजीकरणश्वयथूकरणविलयनदहनदारणमादन-प्राणघ्न-विषप्रशमनानि वीर्यप्राधान्याद्भवन्ति। तच वीर्य द्विविधमुष्णं शीतश्च, अग्नीषोमीयखाजगतः । केचिदष्टविधमाहुरुष्णं शीतं स्निग्धं रुक्षं विशदं पिच्छिल मृदु तीक्ष्णञ्च त्येतानि खलु वीर्याणि स्ववलगुणोत्कर्षाद्रसमभिभूयात्मकम्म कुर्वन्ति। यथा तावन्महत् पञ्चमूलं कषायं तिक्तानुरसं वातं शमयेदुष्णवीर्यखात् । तथा कुलत्थः कषायः, कटुकः पलाण्डुः स्नेहभावाच । मधुरश्चक्षुरसो वातं वर्द्धयेत् शीतवीर्यवात्। कटुका पिप्पली पित्तं शमयति मृदुशीतवीर्यखात् अम्लमामलकं लवणं सैन्धवञ्च। तिक्ता काकमाची पित्तं वद्ध यदुप्णवीर्यखात् मधुरा मत्स्याश्च । कटुक मूलक श्लेष्माण वद्ध यति स्निग्धवीय्यखात् । अम्लं कपित्थं श्लेष्माण शमयति रुक्षवीर्यवात्, मधुरं क्षौद्रश्च ति। तदेतत् निदर्शनमात्रमुक्तम् । भवन्ति चात्र। “ये रसा वातशयना भवन्ति यदि तेषु वै। रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम्॥ ये रसाः पित्तशमना भवन्ति यदि तेषु वै । तैक्ष्णोष्णालघुताश्च व न ते तत्कर्मकारिणः॥ ये रसाः श्लेष्मशमना भवन्ति यदि तेषु व । स्ने हगौरवशैत्यानि बलासं वद्ध यन्ति ते॥” इति। _ “तस्माद्वीयं प्रधानमिति। तन्नेत्याहुरन्ये । विपाकः प्रधानमिति । कस्मात् ? सम्यमिथ्याविपाकखात् । इह हि सर्वाणि द्रव्याण्यभ्यवहतानि सम्यमिथ्याविपकानि गुण दोषं वा जनयन्ति। भवन्ति चात्र । पृथक्वदर्शिनामेष वादिनां वादसंग्रहः। चतुर्णामपि सामर्थ्य मिच्छन्त्यत्र विपश्चितः॥ तद्रव्यमात्मना किञ्चित् किश्चिद्वीय्येण सेवितम्। किश्चिद्रसविपाकाभ्यां
For Private and Personal Use Only